SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः। नैवमुपपादितः स्वामिविशेषं जीवम्प्रति मनुष्यजीवादेरकारणत्वात् देवजीवम्प्रति मनुष्यजीवस्य कारणत्वेन मनुष्यजीवो द्रव्यजीव इत्येवं द्रव्यनिक्षेपाकारो भवेन्न तु द्रव्यजीव इति । नहि पार्थिव विशेषषटम्प्रति कारणस्य मृत्पिण्डस्य द्रव्यघट इति व्यपदेशवत द्रव्यपार्थिव इति म्यपदेश इति दोषदुष्टत्वं सङ्गमयिष्यन् तथा थटीकाकदुक्तदोषं तावदादौ परिहरति । पृ. ४० पं. १५ इदं पुनरिहावधेयमिति-इह अनन्तराभिहताचार्यमतगततवार्थटीकाकदुरूसिद्धमात्रवृत्तिमावजीवत्वप्रसङ्गन्दोष । इदम् इत्यमित्यादिनाऽन न्तरमेव वक्ष्यमाणम् पुनः अवधेयम् सुधिया परिशीलनीयम् । पृ. ४० पं. १५ इत्थम् उत्तरोत्तरजीवम्प्रति कारणत्वतः । पृ. ४० पं. १५ भावत्वाविरोध:-भावत्वाविरोधाभावोर्थात् कारणत्वाद् द्रव्यमप्यस्तु कार्यापनत्वादनादिपरिणामिकजीवत्वादिमावयोगात्प्राणधारणादिमस्वाच भावत्वमप्यस्तु नास्त्यत्र कश्चित्प्रतिकूलस्तर्कः । एवञ्च सिद्ध एव भावजीवो नान्य इति दोषस्य नावकाशः । प्रत्युतशाले नामादिनामेकवस्तुगतानां भावाविनाभूतत्वप्रतिपादनतो भावत्वाविरोधमेव प्रतिपादितमस्तीत्याह एकवस्तुगतानामिति कुत्र प्रतिपादनमित्यपेक्षायामाह । पृ. ४० पं. १७ तदाह भाष्यकार....अहवेति-अथवा वस्त्वमिधानं नाम स्थापना च यस्तदाकारः। कारणत्वमस्य द्रव्यं कार्यापन तक भाषः ॥१॥ इति संस्कृतम् । तत्र स्वाभिमतं दोषमुद्धावयति । पृ. ४० पं. २० केवलमिति-स्पष्टम् एतत्स्वरूपविशेषजिज्ञासुभिरस्म मिर्मितनयरहस्यादिकमवलोकनीयं ग्रन्थगौरवमयानेह तद्विशेषविचारः प्रतन्यत इत्याचयेनाह । अधिकमिति ॥ इति जीवविषये निक्षेपानुगमनम् । ॥ इति जैनतर्कभाषाटीकायां तृतीयो निक्षेपपरिच्छेदः ॥
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy