________________
जैनतर्कभाषा । ॥ अथ विषयानुक्रमणिका पद्यकदम्बात्मिका ।। ग्रन्थेऽस्मिन्मानघर्चा प्रथममनु ततो नीतिचर्चा ततोऽन्ते
निक्षेपाणां विचारो जिनसमयसमालोचना तत्र कान्ता । सिद्धान्तेऽस्मिन्प्रमाण स्वपरविषयकं ज्ञानमारोपभिनं
नापोधो दर्शनं नो न च निजपरयोरेकभास्येव चासौ ॥१॥ स्वांशे निर्णीतिरूपं भवति ननु फलं तत्प्रमाणं परत्र
एकस्मिन्नो विरुद्धमिति फलकरणे योजिते ते कथश्चित् । तन्मानं स्याद् द्विमेदं जिनमतप्रथितं स्पष्टमध्यक्षमा
स्यादस्पष्टं परोक्षं न परविभजना युज्यते काऽपि तस्य ॥२॥ तत्र स्पष्टं द्विमेदं व्यवहृतिफलकं वस्तुगत्या परोक्षं
मुख्यं स्पष्टं द्वितीयं प्रथममिहभवेदिन्द्रियानिन्द्रियाम्याम् । द्वेषा तस्यापि भेदः श्रुतमतिविधया तत्प्रभेदोऽप्यनेको
विस्तीर्णाऽवग्रहादेरपि मननभिदा स्याच्चतुर्दा तु तत्र ॥३॥ सम्बन्धश्चेन्द्रियार्थोभयनियत इह व्यञ्जनावग्रहोऽयं
मुक्त्वा चक्षुमनोऽपि प्रभवति च ततस्स्याच्चतुस्सङ्ख्यकोऽसौ । ज्ञानोपादानभावाद्भवति पुनरयं ज्ञानमव्यक्तरूपं
नो पूर्वे नापि पश्चात्कथमपि च भवेद् दर्शनं तत्र मान्यम् ॥ ४॥ तत्पश्चादर्थबोधो भवति समतया नो विशेषणे योऽसौ
सर्वैरप्यक्षवगैर्भवति च मनसा षड्विधोऽवग्रहोऽयम् । स द्वेधा निश्चयोत्थो व्यवहृतिनिपुणश्चेति भेदेन भाव्ये
सत्सामान्यैकबोधः प्रथम इह परस्तद्विशेषावगाही ॥५॥ इंहा सम्भावनाख्या तदनु भवति सा तद्विशेषोन्मुखाऽस्याः
प्रायश्शब्देन भाव्यं तदमु गतिवशादेवमुल्लेखरीतिः । एषा स्यानिश्चयोत्या व्यवहृतिप्रभवा या तु तस्याः स्वरूपं
प्रायः शाखेन भाव्यं मधुरगुणबलादेवमग्रेऽपि मेदः॥ ६ ॥