________________
१. प्रमाणपरिच्छेदः
शब्दोऽयं शाल एवायमिति च तदनु स्यादवायस्स एव.
किश्चित्कालस्थितत्वाद् दृढतम उदितो धारणाख्यश्चतुर्थः । धाद्याऽविच्युतिः सा स्मृतिरपि च परा मध्यमा वासनाऽन्या एवं सिद्धान्तगत्या मतिरिह विबुधैर्भाविनीया चतुर्षा ॥ ७ ॥
एवं सिद्धान्तमान्यं श्रुतमपि गदितं त्वक्षरानक्षराथै
मैदैमिमं कथञ्चिन्मनुअमितमिदं द्रव्यतो भावतश्च । एवं प्रत्यक्षतायां श्रुतमतिमजना स्यात्परोक्षेऽपि तेन ज्ञाने नाधिक्यशङ्का प्रभवति बुधगा पञ्चभेदात्परोक्षे ॥ ८॥
आत्मव्यापारमात्रप्रभवमनुमतं मुख्यमस्पष्टमिन
स्पष्टं तच्च द्विमेदं विकलसकलनायोगतस्तत्र चायम् । द्वेधा स्यादादिमो योऽवधिरिति प्रथितोऽशेषरूप्येकबोधः पोढा ज्ञेयोऽनुगामिप्रभृतिनिजमिदाभाजनो मानविद्भिः ॥९॥
अन्त्यो पोधो मनापर्यव इति प्रथितः स्वान्तपर्यायमात्र
प्राही साक्षात्सचिन्ताविषयमनुमया वेत्ति नो तं. तु साक्षात् । द्वौ मेदौ तस्य चोक्तौ ऋजुविपुलमती यस्य मेयो विशेषः . स्वल्पः पूर्वस्स मान्यस्तदधिकविषयो भावनीयो द्वितीयः ॥ १० ॥
यो द्रव्यं पर्यवश्वाखिलमपि विषयं वेत्ति साक्षात्स पूर्णो
बोधो क्षेयो जिनानां भवति च सकलो नास्य मेदप्रमेदौ । तद्वान् स्यात्केवली यो भवति कवल ग् नान्यथौदारिकस्य
देहस्य स्यात्स्थितियद्विवसनमननं युक्त्यपेतं न मान्यम् ॥ ११ ॥
स्थामाव्यात्केवलं तत्सकलविषयकं स्वावृतेरेव नाशात्
नेदं योगोत्यधर्मात्प्रभवति मनसाऽगोचरे भावसार्थे । किन्तु स्वाशेषकर्मावरणविगमतो जायमानस्य चास्य
स्वग्रावेऽशेषभावे किमपि विषयतारोधकं यत्र चास्ति ॥ १२ ॥