________________
२७६
जैनतर्कभाषा । अस्पष्टं यत्परोक्षं भषति ननु भिदा पत्रधा तस्य तत्र ___ याऽसौ पूर्वानुभूतार्थविषयनियता साऽनुभूत्येकजन्या । मानं स्मृत्याख्यमिष्टं न च निजविषये साऽन्यतन्त्रानुभावात्
न प्रामाण्ये तथा साऽनुभवनियतता जन्ममात्रे तु तस्थाः ॥१३॥
मानं स्यात्प्रत्यभिज्ञा स्मृतिसहकतया जायते साऽनुभूत्या
तिर्यक्सामान्यमुख्यान बहुविधविषयान् भासयत्यत्र यस्मात् । सादृश्याव॑ताद्यान् घटयति परतो दूरतादींस्तथैव
यस्मात्तस्मात्परा सा समनुगमपरा यत्र तत्रैकरूपा ॥१४॥
पूर्वस्मादुत्तरस्मिन्घटयति च यतश्चैकतां तद्विशिष्टा
थे द्रव्ये मेयमस्यास्सुगतसुत ततो नापनेयान्वयेयम् । न स्पष्टैकस्वरूपा भवतु कथमियं न्यायमान्यस्वरूपा
महायुक्तोपमानं त्विह विशति यतो नाधिकं तत्त्रमाणम् ॥१५॥
साकं साध्येन हेतोः समसमयदेशादेशधर्मिस्वभावे
व्याप्ति गृह्णाति बोधोऽव्यभिचरितमयी भाविकां तर्क एषः । वाच्यैस्साकं गिरा वाऽवगमननिपुणो वाच्यतादिरशेषा
वच्छेदेनैव सोऽयं नियममतितयोहापराख्यः प्रमाणम् ॥ १६ ॥
साध्ये सत्येव हेतुस्सकल इह भवेनो विना तं च कोऽपि
एवं स्यात्कुम्भशब्दः सकल इह भवेद्वाचकः कुम्भमात्रे । इत्याद्याकारकस्सः प्रभवति च दृशेः प्रत्यभिज्ञास्मृतिभ्यां
साध्यादिस्तेन साध्यानुमितिरधिगतिश्चाभिधेयस्य शन्दात् ॥ १७॥ प्रामाण्यं तस्य बौद्धैरपहृतमुचितं तन्न प्रत्यक्षपश्चा
द्भावेऽपि स्यात्ममाणं भवति ननु यतोऽत्रापि वस्तुप्रबन्धः । प्रामाण्यं मान्यमेतद्वयवहतिबलतो नाविनामावबोधः ।
प्रत्यक्षात्पश्चकाद्यत् सुगतसुतमता प्रक्रिया यत्र मिथ्या ॥ १८ ॥