Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 289
________________ जैनतर्कभाषा । ॥ अथ विषयानुक्रमणिका पद्यकदम्बात्मिका ।। ग्रन्थेऽस्मिन्मानघर्चा प्रथममनु ततो नीतिचर्चा ततोऽन्ते निक्षेपाणां विचारो जिनसमयसमालोचना तत्र कान्ता । सिद्धान्तेऽस्मिन्प्रमाण स्वपरविषयकं ज्ञानमारोपभिनं नापोधो दर्शनं नो न च निजपरयोरेकभास्येव चासौ ॥१॥ स्वांशे निर्णीतिरूपं भवति ननु फलं तत्प्रमाणं परत्र एकस्मिन्नो विरुद्धमिति फलकरणे योजिते ते कथश्चित् । तन्मानं स्याद् द्विमेदं जिनमतप्रथितं स्पष्टमध्यक्षमा स्यादस्पष्टं परोक्षं न परविभजना युज्यते काऽपि तस्य ॥२॥ तत्र स्पष्टं द्विमेदं व्यवहृतिफलकं वस्तुगत्या परोक्षं मुख्यं स्पष्टं द्वितीयं प्रथममिहभवेदिन्द्रियानिन्द्रियाम्याम् । द्वेषा तस्यापि भेदः श्रुतमतिविधया तत्प्रभेदोऽप्यनेको विस्तीर्णाऽवग्रहादेरपि मननभिदा स्याच्चतुर्दा तु तत्र ॥३॥ सम्बन्धश्चेन्द्रियार्थोभयनियत इह व्यञ्जनावग्रहोऽयं मुक्त्वा चक्षुमनोऽपि प्रभवति च ततस्स्याच्चतुस्सङ्ख्यकोऽसौ । ज्ञानोपादानभावाद्भवति पुनरयं ज्ञानमव्यक्तरूपं नो पूर्वे नापि पश्चात्कथमपि च भवेद् दर्शनं तत्र मान्यम् ॥ ४॥ तत्पश्चादर्थबोधो भवति समतया नो विशेषणे योऽसौ सर्वैरप्यक्षवगैर्भवति च मनसा षड्विधोऽवग्रहोऽयम् । स द्वेधा निश्चयोत्थो व्यवहृतिनिपुणश्चेति भेदेन भाव्ये सत्सामान्यैकबोधः प्रथम इह परस्तद्विशेषावगाही ॥५॥ इंहा सम्भावनाख्या तदनु भवति सा तद्विशेषोन्मुखाऽस्याः प्रायश्शब्देन भाव्यं तदमु गतिवशादेवमुल्लेखरीतिः । एषा स्यानिश्चयोत्या व्यवहृतिप्रभवा या तु तस्याः स्वरूपं प्रायः शाखेन भाव्यं मधुरगुणबलादेवमग्रेऽपि मेदः॥ ६ ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332