Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 284
________________ प्रमाणपरिच्छेदः १६९ पृ. ३८ पं. २५ जीवोऽभविष्यत् भाविचेतनावान् स्यात्, तदा उत्तरकालभाविजीवभावकारणत्वेन पूर्वमचेतनतया व्यवस्थितस्य द्रव्यत्वमिति कृत्वा द्रव्यजीव इति द्रव्यनिःक्षेपः सम्भवेत् भवतु एवमेवाम्पुपगमे का हानिरित्यत आह । पृ. ३९ पं. २७ न चैतदिष्टं सिद्धान्ते- पूर्वमजीवस्य सत उतरकाले जीवत्वमुपजायते इत्येत जैन राद्धान्ते नाभ्युपगतम् एतदेवकुतो ज्ञातं भवतेत्यत आह । पृ. ३९ पं. २६ यतो-इति । पृ. ३९ पं २७ अनादिनिधनः- स्वत उत्पतिविनाशरहितः, सदातन इति यावत्, पारिणामिकस्यापि भव्यत्वस्यानादित्वेऽपि मुक्तौ विनाशो भवति नैवं जीत्वस्येत्यावेदयितुं जीवत्वमित्युक्तं, इष्यते इत्यत्र सिद्धान्ते इत्यनुवर्त्तते, एवावता द्रव्यनिःक्षेपस्य जीवेऽभावान्निःक्षेपचतुष्टस्य वस्तुत्वाव्यापकत्वं प्रतिपाद्येदानीं तद्वयापकत्वपक्षपातादाह । पृ. ३९ पं, २७ तथापि - उक्तदिशा द्रव्यनिःक्षेपस्य जीवऽसम्भवेऽपीत्यर्थः । पृ. ३९ पं. २८ गुणपर्यायवियुक्तत्वेन - सहभाविनो गुणाः जीवस्योपयोगादयः क्रमभाविनः पर्यायाः जीवस्य हर्षशोकविषादादयस्ताभ्यां वियुक्तत्वेन रहितत्वेनेत्यर्थः, यद्यपि यस्य यो गुणस्तस्य तत्र यदा कदाऽप्यभावेऽपि यस्मिकस्मिन्नपि विवक्षितक्षणे पर्यायसामान्याभावाभ्युपगतौ द्रवति तांस्तान्पर्यायान् गच्छतीति द्रव्यमिति व्युत्पत्चिलम्यस्य पर्यायानुगामित्वस्य यस्मिन्क्षणे न कोऽपि पर्यायस्तदानीमभावेन द्रव्यत्वमेव न स्यात्, एवमुत्पादव्ययधौव्ययुक्तत्वं वस्तुनः सर्वकालनियतं सवं तत्र द्रव्यस्य स्वस्वरूपेण धौव्ये प्रतिक्षणं कस्यचि - त्पर्यायस्योत्पादः कस्यचित्पर्यायस्य विनाश इत्यत एवोत्पादव्ययौ तत्र पर्यायवियुक्ते च तदुत्पादव्ययाधीनोत्पादव्यययोरभावाभिरुक्तलक्षणं सत्वमेव न स्याद्वथापकस्य सत्त्वस्याभावे तद्वयाप्यं द्रव्यत्वमपि न भवेदेव तथा गुणपर्याय

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332