________________
प्रमाणपरिच्छेदः
१६९
पृ. ३८ पं. २५ जीवोऽभविष्यत् भाविचेतनावान् स्यात्, तदा उत्तरकालभाविजीवभावकारणत्वेन पूर्वमचेतनतया व्यवस्थितस्य द्रव्यत्वमिति कृत्वा द्रव्यजीव इति द्रव्यनिःक्षेपः सम्भवेत् भवतु एवमेवाम्पुपगमे का हानिरित्यत
आह ।
पृ. ३९ पं. २७ न चैतदिष्टं सिद्धान्ते- पूर्वमजीवस्य सत उतरकाले जीवत्वमुपजायते इत्येत जैन राद्धान्ते नाभ्युपगतम् एतदेवकुतो ज्ञातं भवतेत्यत आह ।
पृ. ३९ पं. २६ यतो-इति ।
पृ. ३९ पं २७ अनादिनिधनः- स्वत उत्पतिविनाशरहितः, सदातन इति यावत्, पारिणामिकस्यापि भव्यत्वस्यानादित्वेऽपि मुक्तौ विनाशो भवति नैवं जीत्वस्येत्यावेदयितुं जीवत्वमित्युक्तं, इष्यते इत्यत्र सिद्धान्ते इत्यनुवर्त्तते, एवावता द्रव्यनिःक्षेपस्य जीवेऽभावान्निःक्षेपचतुष्टस्य वस्तुत्वाव्यापकत्वं प्रतिपाद्येदानीं तद्वयापकत्वपक्षपातादाह ।
पृ. ३९ पं, २७ तथापि - उक्तदिशा द्रव्यनिःक्षेपस्य जीवऽसम्भवेऽपीत्यर्थः ।
पृ. ३९ पं. २८ गुणपर्यायवियुक्तत्वेन - सहभाविनो गुणाः जीवस्योपयोगादयः क्रमभाविनः पर्यायाः जीवस्य हर्षशोकविषादादयस्ताभ्यां वियुक्तत्वेन रहितत्वेनेत्यर्थः, यद्यपि यस्य यो गुणस्तस्य तत्र यदा कदाऽप्यभावेऽपि यस्मिकस्मिन्नपि विवक्षितक्षणे पर्यायसामान्याभावाभ्युपगतौ द्रवति तांस्तान्पर्यायान् गच्छतीति द्रव्यमिति व्युत्पत्चिलम्यस्य पर्यायानुगामित्वस्य यस्मिन्क्षणे न कोऽपि पर्यायस्तदानीमभावेन द्रव्यत्वमेव न स्यात्, एवमुत्पादव्ययधौव्ययुक्तत्वं वस्तुनः सर्वकालनियतं सवं तत्र द्रव्यस्य स्वस्वरूपेण धौव्ये प्रतिक्षणं कस्यचि - त्पर्यायस्योत्पादः कस्यचित्पर्यायस्य विनाश इत्यत एवोत्पादव्ययौ तत्र पर्यायवियुक्ते च तदुत्पादव्ययाधीनोत्पादव्यययोरभावाभिरुक्तलक्षणं सत्वमेव न स्याद्वथापकस्य सत्त्वस्याभावे तद्वयाप्यं द्रव्यत्वमपि न भवेदेव तथा गुणपर्याय