________________
१. प्रमाणपरिच्छेदः।
२३९ पृ. ३३ पं. ७ चारित्रेति-चारित्रलक्षणक्रियायाः, श्रुतपदेन ज्ञानस्य, सम्यक्त्वपदेन सम्यग्दर्शनस्य प्रतिपादनम्, ननु सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्ग इति तत्त्वार्थसूत्रतस्सम्यग्ज्ञानदर्शनचारित्राणां त्रयाणां मोक्षकारणत्वं जैनराद्धान्तानुमते तच्च नैगमादयो नया अपि मन्यन्ते इति तेषां प्रमाणत्वमेव भवेत्कुतो ज्ञाननयत्वमित्यपेक्षायामाह ।
पृ. ३३ पं. ८ तथापि-त्रयाणां मोक्षकारणत्वमभ्युपगच्छन्तोऽपि ।
पृ. ३३ पं. ८ व्यस्तानामेव-मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकविभिन्नधर्माकलितानामेव, एवं सत्येव ज्ञानस्य प्राधान्येन कारणत्वं तदन्ययोश्च गौणत येत्युपगमस्तेषां युज्यते समुदितानां कारणत्वे तु सर्वेषां प्राधान्यमेव स्यादित्याह न तु समस्तानाम् , उक्तसूत्रे च मोक्षमार्ग इत्यैकवचनस्यैकस्वमर्थ विवक्षितमन्यथाविशेषणवाचकपदस्य विशेष्यगचकपदोत्तरविभक्तितात्पर्यविषयसङ्ख्याविरुद्धसङ्ख्याविवक्षाविषयत्वाभाववद्विभक्तिकत्वतस्समानवचनत्वस्यैव नियमेन मोक्षमार्गा इति बहुवचनान्तत्वं प्रसज्येतेति मोक्षमार्गत्वम्मोक्षम्प्रति कारणत्वं तत्र तदेकत्वमन्वेति एवञ्च त्रयाणां मोक्षम्प्रत्येककारणत्वं सूत्रोपदिष्टन्तदा स्याद्यदि समुदितानामेव कारणत्वम्भवेदितिसमुदितकारणत्वाभ्युपगमे सत्येव प्रमाणत्वं तच तेषानास्तीति, कुतो न नैगमादयस्समस्तानां कारणत्वमिच्छन्तीत्य. पेक्षायामाह।
पृ. ३३ पं. ९ एतन्मते-नैगमादिमत इत्यर्थः, ज्ञानादित्रयादेवेत्येवकारेण ज्ञानादेरेकैकस्य व्यवच्छेदः।
पृ. ३३ पं. १० अन्यथा-ज्ञानादित्रयादेव मोक्ष इति नियमाभ्युपगमे ।
पृ. ३३ पं. १० समुदायवादस्य-समुदितै नादिभित्रिभिर्मुक्तिर्न तु व्यस्तैरिति वादस्य स्थितपक्षत्वात् प्रमाणवादत्वात् , सम्यग्ज्ञान-सम्यग्दर्शनसम्यग्चारित्ररूपरत्नत्रयादेव मोक्ष इति सिद्धान्तपक्षे जैनीये यथा
शक्तिनिपुणतालोक-काव्यशास्त्राद्यवेक्षणात् ।
काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ १ ॥ इति वचनात् हेतुरित्यत्रैकवचनविवक्षितहेतुत्वगतैकत्वतश्शक्तिनिपुणताऽ भ्यासानां त्रयाणां समुदितानां काव्यम्प्रत्येकमेव कारणलं पर्याप्तं, तथोक्तरत्नत्र