________________
२३.
जैनतर्कभाषा । याणां समुदितानामेकमेव मोक्षम्प्रति हेतुत्वम्पर्याप्तं, नैगमादिनयप्रसूतनैयायिका. दिमते तु यथा वह्निम्नति तगारणिमणीनां वह्निगतवैजात्यत्रयम्प्रकल्प्य विजातीयवह्निम्प्रति तृणं कारणं, विजातीयवढिम्प्रति अरणिः कारणं, विजातीयवह्निम्प्रति मणिः कारणमितिकारणतात्रयं तथा मोक्षगतवैजात्याभावेऽपि सम्यग्ज्ञानव्यवहितोत्तरजायमानमोक्षम्प्रति सम्यग्ज्ञानं कारणमित्यादिरीत्या त्रयं कारणं, तत्र योऽभिप्रायविशेषो नैगमाद्यभिप्रायावान्तरवैलक्षण्यवान् ज्ञानस्य मोक्षम्प्रति कारणत्वमङ्गीकरोति तदपेक्षया नैगमादिनयानां ज्ञाननयत्वमित्येवं नयवादस्य स्थितपक्षात्सिद्धान्तवादात्प्रमाणमृर्दाभिषिक्ताद्भेद इति । नयानाम्मध्ये यस्य नयस्य यन्नयापेक्षया बहुविषयत्वं यनयापेक्षया चाल्पविषयत्वं तदुपदर्शयितुं तत्र प्रतिपाद्यजिज्ञासामाह
पृ. ३३ पं. १२ कः पुनरत्र-नयानाम्मध्ये पृ. ३३ पं. १२ सन्मानगोचरात्-महासामान्यसन्मात्रविषयकात् । पृ. ३३ पं. १३ तावदिति-वाक्यालङ्कारे
पृ. ३३ पं. १३ भावाभावभूमिकत्वात्-भावः सत्तासामान्यसत्तापेक्षया अभावस्तद्भिन्नो विशेषः यदपि द्रव्यत्वादिसामान्यसत्तापेक्षया विशेषो भवत्येवेति सङ्ग्रहस्य सन्मात्रविषयकत्वेनाल्पविषयकत्वं तदपेक्षया नैगमस्य सामान्यविशेषोभयविषयकत्वेन बहुविषयकत्वमित्यर्थः, व्यवहारपेक्षया सङ्ग्रहस्य बहुवि. षयत्वं, व्यवहारस्य च सङ्ग्रहापेक्षयाल्पविषयकत्वमिति दर्शयति ।
पृ. ३३ पं. १४ सद्विशेषप्रकाशकादिति-यद्यपि सङ्ग्रहः सन्मात्रमेव विषयीकरोति तथापि सन्मात्रे जगदेव प्रविष्टमिति तस्य व्यवहारपेक्षया बहुविषयकत्वमित्यभिसन्धानेनोक्तम् ।
पृ. ३३ पं. १४ समस्तेत्यादि-ऋजुमूत्रापेक्षया व्यवहारस्य बहुविषयत्वं ऋजुत्रस्याल्पविषयत्वमिति दर्शयति ।
पृ. ३३ पं. १५ वर्तमानेति-साम्प्रतनयापेक्षया ऋजुत्रस्य बहुविषयत्वं तदपेक्षया साम्प्रतस्याल्पविषयत्वं दर्शयति ।