________________
१. प्रमाणपरिच्छेदः
२११ पृ. ३३ पं. १७ कालादिभेदेन...तद्विपरितवेदक-कालकारकादिभेदेऽ. प्यभिन्नार्थप्रदर्शकः, प्रकारान्तरेणापि शब्दर्जुसूत्रयोरल्पबहुविषयत्वे दर्शयति ।
पृ. ३३ पं. १८ न केवलं....भावघटस्थापि-एतस्वरूपप्ररूपको विशेषा वश्यकग्रन्थो यथा:-" अथवा प्रत्युपनऋजुसूत्रस्याविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्तु स एव सद्भावादिभिः विशेषिततरोऽभिमतः इत्येवमन योर्भेदः। तथाहि-स्वपर्यायः परपर्यायैरुभयपर्यायैश्च सद्भावेनासद्भावेनोभयेन चार्पितो विशेषतः कुम्भः कुम्भाकुम्भावक्तव्योभयरूपादिभेदो भवति सप्तभङ्गम्प्रतिपद्यत इत्यर्थः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थ यथाविवक्षमेकेन केनापि भङ्गेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते नयत्वात् ऋजुसूत्राद्विशेषिततरवस्तुग्राहित्वाच्च स्याद्वादिनस्तु सम्पूर्णसप्तभङ्गयात्मकमपि प्रतिपद्यन्त " इति ।
पृ. ३३ पं. २० इत्यादि-इत्यादिपदात्स्यायटस्यादघटश्च स्यादवक्तव्य इत्यादिभङ्गानाम्परिग्रहः।
पृ. ३३ पं. २० तेन-शब्दनयेन
पृ. ३३ पं. २० तस्य-शुब्दनयस्य
पृ. ३३ पं. २१ उपदेशात-'इच्छइ विसेसियनरं पच्चुप्पन्नो नओ सद्दो" इति नियुक्तिवचनेन" तं चिय रिजुमुत्तमयं पच्चुप्पन्नं विसेसियतरं सो। इच्छइ भावघडं चिय जं न उ नामादिए तिनि" इति भाष्यवचनेन " विशेषिततरः शब्दो भावमात्राभिमानतः । सप्तभङ्गयेषणाल्लिङ्गभेदादेरर्थभेदतः ॥ इत्यादि वचनेन च शब्दनयस्य ऋजुसूत्राद्विशेषिततरत्वस्य प्रतिपादनात, उपदार्शतवचने विशेपिततरः शब्द इति स्थाने ऋजुसूत्राद्विशेषोऽस्य " इत्यपि पाठ उक्तार्थक एव । नव्वेवं सप्तभनयभ्युपगमे ऋजुसूत्रस्य स्याद्वादित्वमेव स्यान तु नयत्वं । सम्पूऑर्थोपदर्शकत्वेन तदेकदेशमात्रोपदर्शकत्वाभावादित्यत आह ।
पृ. ३३ पं. २१ यद्यपी...एतदभ्युएगमेति-घटाद्यभ्युपगमेत्यर्थः । ... पृ. ३३ पं. २३ अत्र-शब्दनये