________________
जैनतर्कभाषा। पृ. ३३ पं. २४ वदन्ति-विशेषावश्यककारादय इति दृश्यम् , तद्ग्रस्थपाठ. स्तु दर्शित एवेति । समभिरूढापेक्षया शब्दस्य बहुविषयत्वं तदपेक्षया समभिरूढ स्याल्पविषयत्वं दर्शयति ।
___ पृ. ३३ पं. २४ प्रतिपर्यायशब्द....तद्विपर्यायानुयायित्वात-पर्यायभेदेऽप्यर्थाभेदविषयकाभिप्रायत्वात् , पर्यायशब्दभेदेनार्थभेदमभ्युपगच्छतस्सम भिरूढनयात्पर्यायशब्दभेदेऽप्यर्थाभेदमेवाभ्युपगच्छन् शब्दनयो बहुविषयक इत्यर्थः एवम्भूतात्समभिरूढस्य बहुविषयत्वं तस्मादेवम्भूतस्याल्पविषयत्वं दर्शयति ।
..पृ. ३३ पं. २५ प्रतिक्रियामिति-यदा यच्छन्दव्युत्पत्तिनिमित्तक्रिया वर्तते तदैव तच्छब्दवाच्यस्सोऽर्थत्सत्कियाविरहकाले तच्छब्दार्थस्स न भवतीत्ये. वमुररीकुर्वाणादेवम्भूतनयात् यदा कदापि व्युत्पत्तिनिमित्तक्रियाभावे तादृशक्रियाविरहकालेऽपि तादृशक्रियोपलक्षितसामान्यविशेषलक्षण प्रवृत्तिनिमित्तवलात्तच्छब्दवाच्यस्सम्भवत्येवमभ्युपगच्छन्नवम्भूतनयो बहुविषय इत्यर्थः। एतावता नैगमादिसप्तनयेषु पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याल्पविषयत्वमुत्तरोतरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वमित्यावेदितं । प्रमाणविचारावसरे दर्शितायास्सप्तभङ्गयाः प्रतिभङ्गं सकलादेशत्वं विकलादेशत्वं च भावित मेव तत्र सकलादेशस्वमावावास्तस्याः सम्पूर्णार्थप्ररूपकत्वात्प्रमाणवाक्यमिति " तदिदमागमप्रमाणं सर्वत्र विधिप्रतिषेधाभ्यां स्वार्थमभिधानं सप्तभङ्गीमनुगच्छति, तथैव परिपूर्णार्थप्रापकत्वलक्षणता. विकप्रामाण्यनिर्वाहाद” इति ग्रन्थेन प्रतिपादितमेव, परं विकलादेशस्वभावा सप्तभङ्गो न परिपूर्णार्थप्रापिकेति न प्रमाणवाक्यं भवितुमहति तर्हि किं सेल्यपेक्षायामाह ।
पृ. ३३ पं. २८ नयवाक्यमपि-अपिना यथो प्रमाणवाक्यं स्वार्थमभिधान सप्तभङ्गीमनुगच्छति तथेत्यर्थस्य सूचनम् , तर्हि नयवाक्यमपि सप्तभङ्गयनुगमनतः प्रमाणवाक्यमेव भवेदित्यत आह ।
पृ. ३४ पं. १ विकलादेशत्वादिति-परम्-किन्तु । पृ. ३४ पं. १ एतद्वाक्यस्य-नयवाक्यस्य विकलादेशत्वात्सप्तभङ्गानु