________________
१. प्रमाणपरिच्छेदः ।
गमनेऽपि विकलादेशत्वस्यैव भावात् प्रमाणवाक्यात्समभङ्गधनुगामिप्रमाण
"
वाक्यात् ।
पृ. ३४ पं. २ विशेष - भेदः ।
॥ इति सन्नयनिरूपणम् ॥
अथ नयाभासनिरूपणम् ।
नया भासान्निरूपयति
पृ. ३४ पं. ४ अथेति - नयनिरूपणानन्तरं प्रसङ्गसङ्गत्या नयाभासा निरूपयन्त इत्यर्थः ।
पृ. ३४ पं. ४ तत्र -नयाभासेषु मध्ये, यथा सन्नयस्य सामान्यतो द्रव्याकिपर्यायार्थिकाभ्यां द्वैविध्यं तथा नयाभासस्यापि द्रव्यार्थिकामास पर्यायार्थिकाभासाभ्यां द्वैविध्यं तत्र द्रव्यार्थिकाभासं लक्षयति ।
पृ. ३४ पं. ५ द्रव्मात्रग्राहीति - प्राधान्येन द्रव्यमात्रग्राहित्वं सद्द्द्रव्यार्थिकनयेऽपीति तत्रांतिव्याप्तिवारणाय पर्यायप्रतिक्षेपीति ।
पृ. ३४ पं. ५ पर्यायमात्रग्राहीत्यादि - पर्यायार्थिका भासलक्षणे सत्पययातिव्याप्तिवारणाय ।
पृ. ३४ पं. ५ द्रव्यप्रतिक्षेपीति-तत्र द्रव्यार्थिकभासात्रिविधः - नैगमाभास - सङ्ग्रहाभास - व्यवहार भासभदात् तत्र नैगमाभासं प्ररूपयति ।
पृ. ३४ पं. ६ धर्मिधर्मादीनामिति धर्मिणोरेकान्तेन भेदावगाहन. प्रवणोऽभिप्राय विशेषः धर्मयोरेकान्तेन भेदावग्राह्यध्यवसायविशेषः धर्मधर्मिणोरेकान्तेन भेदसमर्थन परोऽध्यवसायश्च नैगमाभास इत्यर्थः । कुण्डलाङ्गदेऽत्यन्तभिने इति प्रथमः, सामान्यविशेषौ विभिन्नावेव धर्माविति द्वितीयः, अवयवावयविनौ
३०