________________
जगतमा।
गुणगुणिनौ कियाक्रियावन्तौ जातिव्यक्ती नित्यद्रव्यविशेषात्यन्तमित्रावेवेत्यांचा अभिद्रव्यविशेषास्तृतीय इत्यर्थः । नैगमाभासमुदाहरति ।
___ पृ. ३४ पं. ७ यथा नैयायिकवैशेषिकदर्शनम् तत्र नैयायिकदर्शने प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्ता-वयव-तर्क-निर्णयवाद-जल्प वितण्डा-हेत्वाभास-छल-जाति-निग्रहस्थानानां तचाधिगमानिःश्रेयसाधिगम इति गौतमसूत्रदर्शिताः षोडशपदार्थाः। वैशेषिकदर्शने द्रव्य-गुण-कर्म-सामान्यविशेष-समवायाः षट् भावाः अभावश्चेति सप्तपदार्थाः। तत्र द्रव्याणि पृथिवी-जल तेजो-वायु-आकाश-दिगात्ममनांसि नवैव, गुणा रूप-रस-गन्ध-स्पर्श-सङ्ख्या परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-बुद्धि-सुख-दुःख-इच्छा-द्वेष प्रयत्न-धर्माधर्म-गुरूत्व-द्रवत्व-स्नेह-संस्कार-शब्दाश्चतुर्विंशतिरेव, कर्माणि उत्क्षेपणा-पक्षेपणा-कुश्चन-प्रसारण-गमनानि पञ्चैव, परमपरश्चेति द्विविधं सामान्यं, नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव, समवायस्त्वेक एव, अभावस्तुप्रागभाव-प्रध्वंसाभाव-अन्योन्याभाव-अत्यन्ताभावभेदेन चतुर्धा इति सर्वेऽप्येते परस्परमत्यन्तभिन्ना एवोपगता इति नैयायिकवैशेषिकदर्शनं नैगमाभास इत्यर्थः। श्रीसिद्धसेनसूरिमते नैगमः संग्रहव्यवहारयोरन्तर्भूत इति तदाभासोऽपि तदाभासयोरेवान्तर्भूतः । नैके गमा इति नैगमा इति व्युत्पत्त्याश्रयणान्नैगमनयस्य बहुविधत्वमिति तदाभासस्यापि बहुविधत्वमिति तदाभासस्यापि बहुविधत्वं, तद्यथा कश्चिद्वादी पुरुष एवेदं सर्वमित्य भुपगच्छति कश्चित्पुरुषस्याप्येकत्वमनेकत्वचा. भ्युपगच्छति एवं कर्तृत्वाकर्तृत्वासर्वगतसर्वगतत्व-मूर्त्तत्वादिवादः पुरुषमाश्रित्य विभिन्नो बहवो नैगमाभासाः, तथा जगदाश्रित्य सेश्वरत्वानीश्वरत्व-प्रधान कारणत्व-परमाणुप्रभवत्वं-स्वकृतकर्मसापेक्षत्वतदभाव-स्वभावकृतत्व-कालकृतत्व नियतिप्रभवत्वाः परस्परनिरपेक्षनिरूपणप्रवणा नगमाभासा इति द्रष्टव्यम् । सङ्ग्रहाभासं निरूपयति ।
पृ. ३४ पं. ७ सत्ताऽद्वैतमिति-सकलं वस्तु सदात्मकमेव विशेषाः केऽपि न सन्त्येव इत्येवमभ्युपगच्छन्नभिप्रायविशेषः सङ्ग्रहाभास इत्यर्थः । सत्ताद्वैतमुपलक्षणं ज्ञानाद्वैत-शब्दाद्वैतादीनामपि, सङ्ग्रहाभासोऽपि परसग्रहाभासापरसमहाभासभेदेन द्विविधस्तयोः क्रमेणोदाहरणमाह ।