________________
१. प्रमाणपरिच्छेदः ।
पृ. ३४ पं. ८ यथाऽखिलान्यद्वैतवादिदर्शनानि - परसङ्ग्रहाभासस्योदाहरणम् ।
११५
पृ. ३४ पं. ९ सांख्यदर्शन चेति- अपर सङ्ग्रहा भासस्योदाहरणम्, तत्र सच्चिदानन्दस्वरूपं ब्रह्मैव परमार्थसत् तद्भिन्नं जगन्मिथ्यैवेत्वेकान्तब्रह्माद्वैतवादिवेदान्तदर्शनम् सग्रहाभासः, तन्मते अद्वितीयं सच्चिदानन्दस्वरूपं ब्रह्मैव वस्तु आविद्यकं जगत् मिथ्यैव अविद्या च अज्ञानमिति मायेति च गीयते, सत्र रजस्तमोगुणात्मिका च सा, ज्ञानविरोधिनी भावात्मिका च सा पुनः ब्रह्माश्रिता ब्रह्मविषयिणी चेत्येकं मतं यदुक्तं संक्षेपशारीरके
" आश्रयत्वविषयत्व भागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमी नाश्रयो भवति नापि गोचरः ॥ १ ॥
बहुनिगद्य किमत्र वदाम्यहं शृणुत सङ्ग्रहमद्वयशासने । सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसां व्यवहार भाग् ||२||”
इति जीवाश्रिता ब्रह्मविषयिणी अविद्येत्यपरं मतम् । तस्याश्चावरणशक्तिः विशेषशक्तिश्चेति शक्तिद्वयं । तत्रावरणशक्तिर्द्विधा असत्त्वापादकाभावापादकभेदात् तत्र सदपि ब्रह्मसच्चापादिकयाशक्त्याऽविद्ययाऽऽवृत्तं सदस्तीत्येवमपि यन्न ज्ञायते. तदाद्यकृतं सा च शक्तिः परोक्षज्ञानेन नश्यति, ब्रह्मणः परोक्षज्ञाने सति अस्ति ब्रह्मेति प्रतिभासात् परोक्षज्ञानेन ज्ञायमानमपि ब्रह्म यत्स्पष्टं न भाति तदमानापादकशक्तिकृत्यं, यद्वशादनुमानादिना ज्ञातं तु ब्रह्म तत्कीदृगिति स्फुटं न प्रतीभातीति, विक्षेपशक्तिः सर्जनशक्तिः यद्वशादसदपि जगद् ब्रह्मणि कल्पितम्भवति तत्र ब्रह्मविवर्त्ताधिष्ठानमिति ब्रह्मविवर्त्त जगत्, विवर्त्तो नाम विषमसत्ताक कार्यापत्तिः । ब्रह्मणः सत्ता परमार्थिकी त्रिकालाबाध्यत्वाद्ब्रह्मणः जगतस्तु सत्ता व्यावहारिकी ब्रह्मसाक्षात्कारात्पूर्वमेव व्यवहारकाले तन्न बाध्यते, तत एवं ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यत्वाद्वयावहारिकस्य घटादेः प्रतिभासकालाबाध्यत्वेन प्रतिभासिक सतश्शुक्तिरजतादेर्भेदः । तस्य व्यवहारकाले एव ब्रह्मज्ञानातिरिक्तेन नेदं रजतमिति ज्ञानेन बाधात् एतेन वेदान्तदर्शने त्रिविधा सचा व्याख्याता,
1