________________
१६
- जैनतर्कभाषा । पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति, यद्यथा न भवति तत्तथाऽवमासत इति विवर्तः पर्यवसितः तेन ब्रह्मैव जगद्रूपेणावभासते न तु तद्वयतिरिक्तं किमपि वस्तु समस्तीति। अविद्यायास्तु परिणामरूपं जगत् परिणामो नाम कारणसमसचाककार्यापत्तिः, अविद्या जगतोयोरपि व्यावहारिकत्वात् अत एव ब्रह्मसाक्षात्कारानन्तरमविद्यालक्षणोपादानेन सहैव जगतो निवृतिरित्येव दिशा ब्रह्माद्वैतवादः पल्लवितः । तदेतन्मतं यथा न सम्भवति तथा श्रीहेमचन्द्रसरिप्रभृतिभिदर्शितम् । उक्तश्च श्रीहेमचन्द्रसूरिभिः--
"माया सती चेद् द्वयसवसिद्धि-स्थाऽसती हन्त कुतः प्रपञ्चः।
मायैव चेदर्थसहा च तत्कि, माता च वन्ध्या च भवत्परेषाम् ॥१॥ इति एवमेकान्तशब्दाद्वैतज्ञानाद्वैतादिवादा अपि परस ग्रहाभासतयाऽवसेयाः। साङ्ख्यदशेने पुनः महदादिविकृतिवातजनकाशेषशक्तिसमन्वितात्प्रधानादेव मूलप्रकृतेः कार्यभेदा जायन्ते सर्वेषां च प्रकृतिलक्षणकारणात्मकत्वमिति प्रकृत्यास्मना सर्वेषां सङ्ग्रहणाद् सङग्रहाभासत्वमस्य, प्रकृतिः सत्वरजस्तमसा साम्याव. स्था, ततो महत्तत्वं बुद्धयापरनामकमाविर्भवति, सत्कार्यवादत्वादेतदर्शने पूर्वमसत आद्यक्षणसम्बन्धलक्षणोत्पचिर्न कस्यापि, किन्तु सत्कार्यवादत्वात्कारणात्मनाऽवस्थितस्य सामग्र्या आविर्भाव एव, धंसोऽप्येतन्मते तिरोभाव एव न तु सर्वथा विनाशः। महत्त्वाचाहंकारः, अहङ्काराच पञ्च-शब्द-स्पर्श-रूप-रसगन्धात्मकानि तन्मात्राणि श्रोत्रत्वकूचक्षुजिह्वाघाणानि पञ्चज्ञानेन्द्रियाणि वाक्पाणिपायूपस्थानि पञ्चकर्मेन्द्रियाणि उभयात्मकं मन इत्येवमेकादशेन्द्रियाणि च जायन्ते पञ्चभ्यस्तन्मात्रेभ्यश्च शब्दादाकाशः स्पर्शाद्वायुः रूपासेजः, रसादापः, गन्धात्पृथिवीत्येवं पञ्चभूतानि जायन्ते तदुक्तमीश्वरकृष्णेन "प्रकृतेमहांस्ततो. जवारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥१॥ इति पुरुषश्च प्रकृतिविकृतिभिन्नः । तदुक्तम्
मूलप्रकतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त ।
पोडशकस्तु विकारो न प्रकृतिर्नापि विकृतिः पुरुषः ॥१॥ इति उक्तपञ्चविंशतितत्रज्ञानाच्च मुक्तिरेतदर्शने, तदुक्तम्