________________
१. प्रमाणपरिच्छेदः।
पञ्चविंशतितत्रज्ञो यत्रकुत्राश्रमे रतः। जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ १॥ असत्कार्यवादो नानेनाभ्युपगतः। असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ।। १ ॥ इत्यनया कारिकयोपदर्शिताद्धेतुकदम्बकात्सत्कार्यव्यवस्थानमित्यादिदिशा साङ्ख्यमतस्य प्रक्रियाऽवसेया, प्रकृतिविकृतिभावेन तत्त्वानां विभजनाद्वयवहारनयाभासेऽपि साङ्ख्यदर्शनस्य प्रवेशमभिमन्यन्ते सूरयः। एतन्मतमपि मिथ्यात्वादेवाभासो ज्ञेयः मिथ्यात्वञ्च विचारासहत्वात् , महदादीनां प्रधानात्मकत्वे प्रधानस्वरूपं यथाप्रधानादव्यतिरिक्तं न प्रधानकार्य तथाकार्यत्वं न स्यात् कार्यकारणयोर्मिनलक्षणत्वात् , अत एव सर्वथा कार्यकारणयोरभेदमभ्युपगच्छन्सा
ख्योऽन्येनोपहस्यते " यदेव दधि तत्क्षीरं, यत्क्षोरं तद् दधीति चा वदता विन्ध्यवासित्वं ख्यापितं विन्ध्यवासिना ॥ १ ॥
. . इत्येदिशा विचारासहत्वमस्य भावनीयम् । व्यवहाराभासं निरूपयति ।
... पृ. ३४ पं. ९ अपारमार्थिकेति-उदाहरति ।
. पृ. ३४ पं. १० यथा चार्वाकदर्शनमिति-तत्र अपारमार्थिकद्रव्यपर्याय विभागाभिप्रायत्वमुपपादयति ।
- प. ३४ पं. १० चार्कको हीत्यादिना हि-यतः चार्वाक:-प्रत्यक्षैकप्रमाणाभ्युपगन्ता भूतचैतन्यवादी लोकायतिका
. पृ. ३४ पं. १० प्रमाणप्रतिपन्नं प्रत्यक्षादिप्रमाणसिद्धम् , अहं सुखी अहं दुःखीत्यादि प्रत्यक्षमेव तावद् देहादिव्यतिरिक्तात्मद्रव्यलक्षविषयमन्तरण नोपद्यते, अन्धकारादौ शरीरेण बाह्येन सहालोकादिसापेक्षचक्षुरिन्द्रियस्य स्वविपयग्राइकस्य सनिकर्षलक्षणव्यापाराभावेऽप्युपजायमानस्याह सुखीत्यादिप्रत्यक्षस्य