________________
जैनतर्कभाषा चाक्षुषत्वासम्भवान्मानसस्य तस्य बहिरिन्द्रियसहकारेण जायमानस्य बहिदेहादिविषयकत्वासम्भवेऽन्तर्व्यवस्थितात्मविषयकत्वमेवाभ्युपगन्तव्यमित्येवंदिशा प्रत्यक्षप्रमाणसिद्धत्वमस्त्येवात्मनः, अथापि तत्र प्रत्यक्षप्रमाणविषयत्वे विप्रतिपघेत सः, तथापि इन्द्रियं सकतृकं करणत्वाद्वास्यादिवदित्याद्यनुमानप्रमाणसिद्धत्वं भवत्येवात्मनः, चेतनम् कर्ता भवति शरीरश्च न चेतनं, तस्य चैतन्ये बाल्ये विलो. कितस्य स्थविरे स्मरणं न स्यात् । -
नान्यदृष्टं स्मरत्यन्योऽनैकं भूतभवक्रमात् । वासना सङ्क्रमो नास्ति न च गत्यन्तरं स्थिरे ।
इति वचनतस्तथाव्यवस्थापितत्वात् यतः, उपचयापचयलक्षणविरुद्धधर्माध्यासेन न बाल-वृद्धाद्यवस्थशरीरयोरैक्यं भेदे चान्यदृष्टस्यान्येन स्मरणं न भवतीतिनियमेन बाल्यशरीरेणान्येन दृष्टस्य स्थविरशरीरेणान्येन स्मरणासम्भवः, बाल्यशरीरगतसंस्कारलक्षणवासनागुणस्य स्थविरशरीरे गमनमपि वक्तुमनहे द्रव्यमात्रवृत्तः कर्मणो गुणेऽभावात् , पूर्वशरीरस्योत्तरशरीरम्प्रति कारणत्वेन कारणगत वासनायाः कार्ये सङ्क्रमाभ्युपगमे वा मातृगतवासनाया अपि पुत्रे सङ्क्रमतो मात्रनुभूतस्यापि पुत्रेण स्मरणं स्यात् क्षणभङ्गपक्षस्तु न सम्भवत्येव येन शरीरस. न्ताने पूर्वपूर्वशरीरेणाविरलक्रमेणोत्तरोत्तरविशिष्टशरीरोत्पतितो यत्स्मरणकुर्वद्रूपा. त्मकं शरीरम्भवति तेन स्मरणं जायत इति कल्पनापि स्यात् उक्तदिशेन्द्रियाणामपि चैतन्यं न सम्भवति तत्रापि चक्षुषा दृष्टस्य चक्षुर्विनाशे यत्स्मरणं भवति तन्न भवेदिति बालाद्यवस्थानुगतस्यात्मन एव चैतन्यात्कत्तृत्वम् , एवं प्रवृत्तिम्प्रति सामान्यत एवेष्टसाधनताज्ञानस्य कारणतया सद्योजातस्य वालस्य स्तनपानम. वृत्तिरपीष्टसाधनताज्ञानत एव तदानीञ्च न तस्य तदनुभव इति तत्स्मरणं वाच्यम् तच पूर्वानुभवजनितवासनाप्रभवमिति पूर्वजन्मनि तेनानुभूतं दुग्धपानेष्टसाधनत्वमिदानी स्मर्यत इत्येवं जन्मपरम्परानुगतानादिवासनाप्रवाहाकलितकात्माऽनुगतानादिवासनाप्रवाहाकलितकात्माऽनुमानप्रमाणसिद्धः, प्रत्यक्षेऽपि प्रमाण्यसिद्धिर्न स्वतः, किन्तु इदं प्रमाणं संवादि प्रवृतिजनकत्वादित्याद्यनुमानत एवेति प्रत्यक्षप्रामाण्यमभ्युपगच्छन् चार्वाकः कथमनुमानप्रमाणं नाभ्युपगच्छेदिति। एवं शब्दोऽपि