________________
प्रमाणपरिच्छेदः
प्रमाणं तेन कक्षीकरणीयमेव, अन्यथा पृथिव्यादिचतुष्टयमेव तत्वं प्रत्यक्षमेव प्रमाण, स्वर्गजनको धर्मो नरकजनकोऽअधर्म इत्यादिप्रवादो मिथ्यैव न कोऽपि परलोकादागतो येन श्रद्दधीमहि तद्वचनादस्ति परलोक इति " यावज्जीवेत्सुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥१॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! घृकपदं पश्य यद्वदन्त्य बहुश्रुताः ॥ इत्यादि स्वसिद्धान्तोद्गारोऽपि परप्रतिपत्यथं तस्य न भवेद आगमे च आत्मा प्रतिपादित एवेति शब्दप्रमाणसिद्धत्वमपि तस्येत्येव जीवस्य प्रमाणप्रतिपनत्वे तद्रूपद्रव्यत्वपर्यायादिविभागोऽपि प्रमाणपतिपन्नमित्यर्थः । ..
पृ. ३४ पं. ११ जीवद्रव्येति-उपयोगलक्षणो जीवो गुणपर्यायवत्वाद् द्रव्यं तस्य तदेव मनुष्यादयः पर्यायाः ज्ञानलक्षणस्य चोपयोगस्य मतिज्ञानादयः पर्यायाः आदिपदाद्धर्मास्तिकायो गतिलक्षणो द्रव्यं तस्य गतिपरिणमतोन्मुखजीवादिगत्युपष्ठम्भनरूपतया परिणमनं पर्याय इत्यादेरुपग्रहः इति वास्तविकम् ।
प्र. ३४ पं. ११ प्रविभागम्-विभजनम् ।
पृ. ३४ पं. ११ कल्पनारोपितन्वेन-कल्पना असद्विकल्पस्तत्रारोपितस्तत्रैव विषयतया व्यवस्थितः न तु प्रमाण विषयोऽपीति कल्पनारोपितस्तत्वेन काल्पनिकत्वाभ्युपगमेनेति यावत् ।
पृ. ३४ पं ११ अपहनुते-अपलपति ।
पृ. ३४ पं. ११ अविचारितरमणीयमिति-यावद्विचारारूढं न भवति, तावदेव सुन्दरं, सभ्यगविचार्यमाणे तु विशीर्यत एवेतीदृशम् ।
पृ. ३४ पं. १२ भूतचतुष्टयप्रविभागमात्रम्-पृथिवीजलतेजोवायुस्व. रूपमेव तत्त्वम् ।
पृ. ३४ पं.. १२ स्थूलेति-बाह्यप्रत्यक्षमोचसे यो लोकाना- पामरादि