________________
५४.
जैनतर्कभाषा । साधारणलोकानां न तु परीक्षकाणां व्यवहारः मम शरीरे सुखं दुःखं अहं गौरः अहं श्यामः काणः कुब्ज इत्यादिस्तदनुयायितया तदनुगामित्वेन ।
पृ. ३४ पं १३ समर्थयते-व्यवस्थापयतीत्यर्थः, पर्यायार्थिकामासश्च ऋजुमूत्राभाप्त-शब्दाभास-समभिरूढाभासै-वम्भूताभासभेदेन चतुर्धा, तत्र ऋजुसूत्राभासं निरूपयति । - पृ. ३४ पं १३ वर्तमानेति-वर्तमानपर्यायाभ्युपगन्तृत्वं सतोऽपि ऋजु. सूत्रनयस्येति तत्रातिव्याप्तिवारणाय सर्वथा द्रव्यापलापीति सत्रयस्तु द्रव्यन्नापलपति किन्तु तत्र गजनिमीलिकामवलम्बते एवमपि प्राधान्येन द्रव्यानभ्युपगमात्तद्रूपेण द्रव्यापलापी सोऽपि भवत्येवेत्यत उक्तं ।
. पृ. ३४ पं. १४ सर्वथेति-गौणतया द्रव्याभ्युपगन्तरि तत्र सर्वप्रकारेण द्रव्यानभ्युपगन्तृत्वलक्षणं सर्वथा द्रव्यापलापित्वन्न कस्येति उदाहरति ।
पृ. ३४ पं. १४ यथा तथागतम्-बौद्धम्-तन्नये सर्व हि वस्तु क्षणिक तत्र वर्तमानमात्रग्राहि प्रत्यक्षं प्रमाणं, पूर्वापरक्षणसम्बन्धं स्वाविषयत्वादगृह्णता स्वविषयं मध्यमक्षणसत्त्वं गृह्णता च प्रत्यक्षेण क्षणमात्रस्थायित्वमेव वस्तूनां सिद्धिपद्धत्तिमेति, यद्यपि सदशापरापरक्षणोत्पत्तिदोषादन्त्यक्षणादर्शिनामिदं क्षणिकमितिनिश्चयात्मकसविकल्पप्रत्यक्षन्न भवति तथापि क्षणक्षयिस्वलक्षणात्मकवस्तुविषयकत्वं निर्विकल्पप्रत्यक्षं वस्तुवलसमुद्भूतं क्षणिकतायां प्रमाणं स्यादेव तेन च निर्विकल्पकप्रत्यक्षेण क्षणिकोऽयमिति व्यवहारः । नायं क्षणिक इति विप. र्ययनिरासश्च न भवतीत्युक्तव्यवहृतये उक्तविपर्ययनिरासाय च यत्सत्तत्क्षणिक यथा जलधरः सच्च शब्दादिरित्याद्यनुमानं प्रवर्तते, सत्त्वश्चात्र लिङ्ग नर्थक्रियाकारित्वं तच्च नित्यात् स्वव्यापकक्रमयोगपद्यव्यावृत्त्याव्यावृत्तं क्षणिकत्वेन नियतमिति भवति सत्त्वात्क्षणिकत्वानुमानम् , अत एव नित्यस्य द्रव्यरूपस्याभावात्क्षणिका. लयविज्ञानसन्तानमवात्मस्थाने सौगतेनाभ्युपगम्यते, अहमितिज्ञानमालयविज्ञानम् , अय घटोऽयं पट इत्यादि ज्ञान प्रवृत्तिविज्ञानं सुषुप्तावप्यालयविज्ञानधाराऽनुवर्तते तत एव च सुप्तोत्थितस्य प्रथमं प्रवृत्तिविज्ञानं जायते ततश्चोत्तरप्रवृत्ति विज्ञानमित्येवं क्रमेण प्रवृत्तिविज्ञानधाराप्रवृत्तिः, स्वप्रकाशरूपत्वञ्च ज्ञाने चेतनत्वं, स्थिरा