________________
१. प्रामपरि स्मदर्शनश सम्मते बन्धकारणं नैरात्म्यदर्शनच मुक्तिकारणम्, रामादिक्लेश विनिर्मुक्तं चित्तमेव मुक्तिः । तदुकाम् ।
चित्तमेव हि संसारो, रागादिक्लेशवासितम् । सदेव विनिमुक्त, भवान्तमिति कथ्यते ॥ १॥
इति एवंदिशापल्लवितं तथागतमतमेकान्तपर्यायमात्रस्य द्रव्यं विना कतस्य मिथ्यात्वात्तत्प्ररूपकत्वेन भवति ऋजुसूत्राभाय इत्यर्थः । यथा च नेगमामासे नैयायिकादिदर्शने एकान्तनित्यतयाऽभ्युपगम्यते वस्तुनि स्वव्यापकक्रमयोगपद्य. निवृत्याऽर्थक्रियाकारित्वलक्षणसच्चस्यनिवृत्तिस्तथा ऋजुमूत्राभासे बौद्धदर्शने - प्येकान्तक्षणिकतयाऽभिमते पदार्थे स्वव्यापकक्रमयोगपद्यनिवृत्या निवृत्तवार्थक्रियाकारितेति नैकान्तक्षणिकत्वेन सह सत्वस्याविनाभाव इति न ततः एकान्त. क्षणिकनुमानसम्भव इति नानुमानं क्षणिकत्वे प्रमाणं यत्रैव जनयेदेनां तत्रैवास्य प्रमाणतेति वचनात्स्वानुरूपविकल्पजननद्वारैव निर्विकल्पकप्रत्यक्षस्य प्रमाण्यं बौद्धेनेषितव्यम् , अन्यथा दानादिचित्तगतस्वर्गप्रापणशक्त्यादेरपि स्वसंवेदननिर्विकल्पप्रत्यक्षतस्सिद्धिसम्भवात्तत्साधनार्थमनुमानप्रणयनं बौद्धस्य विफलमेव प्रसज्येत, न च क्षणिकत्वे विकल्पात्मकप्रत्यक्षमिति तन्निर्विकल्पकन तत्र प्रमाणमिति प्रत्यक्षादपि न क्षणिकतयैकान्तसिद्धिः, प्रत्यभिज्ञा च सङ्कलनात्मकज्ञानलक्षणपरोक्षप्रमाणतया पूर्वमुपपादिता पूर्वापरकालीनव्यक्तरक्यावगाहित्वेन स्थैर्यसाधनप्रत्यभिज्ञा बाधते चैकान्तक्षणिकत्वं, लूनपुनर्जातकेशनखादिप्रत्यभिज्ञानस्य दीपकलिकैक्यावगाहिप्रत्यमिज्ञानस्य बाधितविषयकत्वेनाप्रामाण्येऽपि न त दृष्टान्तेन प्रत्यभिज्ञानमात्रस्यैवाप्रामाण्यं, तथा सति कस्यचिद् द्विचन्द्रादिप्रत्यक्ष स्याप्रामाण्ये तजातीयतया प्रमाणत्वेनाभिमत प्रत्यक्षस्याप्यप्रामाण्यं प्रसज्येते. त्यतोऽपि क्षणिकत्वम, बन्धमोक्षसमानाधिकरण्यमपि तन्मते नोपपद्यते, न च सन्तानापेक्षया तदिति युक्तं साम्प्रतम् , सन्तानस्यापि क्षणिकत्वात् , अक्षणिक वे क्षणभङ्गैकान्तत्यागस्यावश्यकत्वेनात्मैव बन्धमाक्षाधिकरणमस्तु किं सन्तानकल्प. नया, आत्मन एव सन्तान इति नामकरणे प्रर्यविसितं विवादेन, स्थिरात्मद्रष्यस्य स्वहस्तितत्वात् , आत्मव्यतिरिक्तस्तु सन्तानस्तन्मते न सम्भवत्यपि निरवयविनवस्य पूर्वर्वविज्ञानक्षणादेरुत्तरोचरविज्ञानक्षणम्प्रत्युपादानत्वासम्भवाद, एवम