________________
भाषा |
म्युपादानत्वे नेत्र विज्ञानक्षणं यथापूर्ववर्त्तितया मैत्रादिसन्तानान्तर्वर्त्तिविज्ञानक्षणमपि पूर्ववर्त्तीति पूर्ववर्त्तित्वाविशेषादन्यस्य कस्यचिद्विशेषस्योपदर्शयितुमशक्यत्वा चैत्र विज्ञानसन्तानान्तर्वर्ति पूर्व विज्ञानमित्र मैत्रादिविज्ञानसन्तानान्तर्वतिविज्ञानमप्यु चरक्षणे जायमानचैत्र विज्ञानम्प्रत्युपादानं स्यादिति चैत्र मैत्रादिविज्ञानसन्तानानां सङ्कीर्णता स्यादित्यादिदिशा विचारपदवीमानीतस्य बौद्धमतस्याप्यनुपपद्यमानत्वा●पायादिदर्शन मित्र तद्दर्शनमपि मिथ्येवेति । साम्प्रताभासापर पर्याय शब्दाभासं निरूपयति ।
पृ. ३४ पं. १५ कालादि भेदेनेति - अर्थ भेदमेवेत्येवकारेण अर्थाभेदं सर्वधानभ्युपगच्छतीत्यर्थी लभ्यते तेन गौणतयाऽर्थाभेदमभ्युपगच्छति सति शब्दनयेऽतिव्याप्तेर्वारणम् ।
पृ. ३४ पं. १५ यथेति - बभूव सुमेरुः भवति सुमेरुः भविष्यति सुमेरुरिस्यैवमन्वयो बध्यः, कालादीत्यत्रादिपदेन लिङ्गादीनां ग्रहणादत्राप्यादिपदेन तटस्वटीनां करोति क्रियते कुम्भं दाराः कलत्रमित्यादेरुपग्रहः शब्दा इत्यन्तं पक्षनिर्देशः । भिन्नमेवार्थमभिदधतीति साध्यनिर्देशः, भिन्नकालशब्दत्वादिति हेतुनि देशः, इदञ्च भिन्नलिङ्गशब्दत्व भिन्नकारकशब्दत्वभिन्नवचनशब्दत्वादेरुपलक्षणम् ।
पृ. ३४ पं. १७ तादृसिद्धेति भिन्नार्थतया भिन्नकालशब्दतयोभयसम्प्रतिपन्नेत्यर्थः । एतच्च दृष्टान्तवचनम् । समभिरूढनयाभासं निरूपयति ।
पृ. ३४ पं. १७ पर्यायध्वनीनाम् - अभिधेयनानात्वमेवेत्येवकारोपादानप्रयोजनं सत् समभिरूढनयेऽतिव्याप्तिवारणम् उदाहरति ।
पृ. ३४ पं. १८ यथेति - इन्द्र इत्यादिशब्दा इत्यन्तं पक्ष निर्देशः, भिन्नभि धेया एवेति साध्यम्, भिन्नशब्दत्वादिति हेतु:, करिकुरङ्गशब्दवदिति दृष्टान्तवचनम्, एवम्भूताभासं निरूपयति ।
पृ. ३४ पं. २० क्रियानाविष्टमिति - एतावता क्रियाविष्टमेव वस्तु शब्दावाध्यताऽभ्युपेतीत्यायातमेव, क्रियानाविष्टं व्युत्पत्तिनिमित्त क्रियाशून्यम् व्युत्पचिनिमित्त क्रियैव चात्रप्रवृत्तिनिमित्तमिति सन्नयनिरूपणावसरे उदाहरति ।
दर्शितमेव,