________________
१. प्रमाणपरिच्छेदा : पृ. ३४ पं. २१ यथेति-विशिष्टचेष्टाशून्यं घटाख्यं वस्त्वितिपक्षः न घटशब्दवाच्यमिति साध्यम् , घटशब्दपवृत्तिनिमित्तभतक्रियाशून्यत्वादिति हेतु, पटवदिति निदर्शनम् , यावन्तःसन्तोऽर्थनयादयः पूर्व निरूपिताः तावन्तोऽर्थनयामासादयोऽपि भवन्ति तेषां क्रमेण स्वरूपाण्युपदर्शयति। ....
पृ. ३४ पं. २३ अर्थाभिधायीत्यादिना अतः परं व्यक्तं सर्वम् इति नयामासे निरूपणम् सन्नये नयाभासे च निरूपिते मेदान्तराभावानयनिरूपणं परिपूर्णम् ॥ इति जैनतर्कभापाटीकायां नयपरिच्छेदनामा द्वितीयः परिच्छेदः ॥
॥ अथ निक्षेपपरिच्छेदनामा तृतीयः परिच्छेदः ॥ अथ निक्षेपसामान्यनिरूपणम् ॥
नयनिरूपणान्तरमवसरसङ्गत्या निःक्षेपनिरूपणम्प्रीतजानीते । . पृ. ३५ पं. ९ नया निरूपिता इति-प्रतिबन्धकविनिवृत्ताववश्यवक्तध्यत्वमवसरसङ्गतिः, प्रमाणानयनिक्षेपैरित्यनेन प्रमाणनयनिक्षेपा उद्दिष्टाः तत्र प्रमाणानन्तरं नय उद्दिष्टो नयानन्तरं निक्षेप उद्दिष्ट इति यथोद्देशं निर्देश इति प्रमा. णनिरूपणान्तरं नयस्यैव जिज्ञासा समुल्लसति यावन्नया न निरूपिता भवन्ति तावन्नयजिज्ञासा न शाम्यतीति साऽन्यनिरूपणप्रतिबन्धिका नये च निरूपिते तादशजिज्ञासाया उपशान्तौ तदनन्तरोपदिष्टे निक्षेपे जिज्ञासोपविष्टत इति तदुपशान्तये निक्षेपस्यावश्यवक्तव्यत्वमायातीति प्रतिवन्धजिज्ञासानिवृस्यवबोधना. योतम् ।
पृ. ३५ पं. ९ नया निरूपिता इति-निवर्त्तनीयतया निक्षेपनिरूपणा निक्षेपजिज्ञासासौलभ्यावेदनायोक्तम् । __ पृ. ३५ पं. ९ अथेति-नयनिरूपणानन्तरमिति तदेर्थः, एतावतोत्तरका. लीनकर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारलक्षणप्रतिज्ञाघटकोत्तरकालीनत्वमावेदितं, निरूप्यन्त इत्यत्र कर्माख्यातस्य कृतिविषयत्वलक्षणकर्मत्वमर्थः कृतौ च ज्ञानानुकूलव्यापाररूपस्य निरूपणरूपधात्वर्थस्सानुकूलत्वसम्बन्धेनान्वयः, कृत्रि