________________
जैनतर्कभाषा । पृ. ३३ पं. १ न चैवमिति-य एव स्वाभिमतोऽपि यदि तदा तं प्राधान्येनायमुररीकरोति यश्च स्वार्थों नास्य स सर्वनयमतोऽपि नैतन्नयाभ्युपगमविषय न प्रमाणत्वमस्येत्याह ।
पृ. ३३ पं. २ सर्वनयमतस्यापि स्वार्थस्य-स्वाभिमतार्थस्य ।
पृ. ३३ पं. २ तेन-निश्चयनयेन एवं ज्ञाननयक्रियानयभेदेनापि नयस्य द्वैविध्यमित्याह ।
पृ. ३३ पं. ३ तथा-तत्र ज्ञाननयस्वरूपमाह ।
पृ. ३३५.३ ज्ञानमात्रेति-मुक्तौ प्राधान्येन ज्ञानमेव कारणमित्यभ्युपगमपरा अभिप्रायविशेषा झाननया इत्यर्थः । ज्ञाननयत्वेनाभिमता नैगमसङ्ग्रह व्यवहारातय इति तेषां बहुत्वाद्भहुवचननिर्देशः, क्रियानयस्य स्वरूपमाह ।
पृ. ३३ पं.४ क्रियामात्रेति-मुक्तिं प्रति प्राधान्येन । क्रियाया एव कार• णत्वमित्यभ्युपगमपरा अभिप्रायविशेषाः क्रियानया इत्यर्थः, अत्रापि क्रियानयत्वेनाभिमतानामृजुसूत्रशब्दसमभिरूढवम्भूतानां च चतुर्णा बहुत्वादहुवचननिर्देशः । ये ज्ञाननयत्वेनाभिमतास्तेषाम्मते क्रियाया अपि कारणत्वाभ्युपगमोऽस्त्येव तथापि प्राधान्येन ज्ञानस्यैव ऋते ज्ञानान मुक्तिरित्यस्य प्राधान्येनावलम्बनात् न मेकचक्रो हि स्थः प्रयातीत्यतः सहकारितया विशुद्धक्रियाचरणतो मनसो विशुद्धिभावेन ततः सम्यग्ज्ञानोदयादिति पृथग्भावेन कारणत्वमज्ञानाद्वन्ध इत्यज्ञाननिवृत्तिरूपा मुक्तिः, ये च क्रियाप्राधान्यवादिनस्तेषामपि मुक्तौ ज्ञानं कारणं, परं प्रधानं कारणं क्रियेव, अमुकस्माद्भेषजादमुकव्याधेरुपशान्तिरिति जानतोऽपि रोगिणो विधित औषधस्यासेवने रोगनिवृत्तेरभावादिति क्रियाया एव प्रधानतेति बोध्यम् ।
पृ. ३३ पं. ५ तत्र-ज्ञाननयक्रियानययोर्मध्ये, ऋजुसूत्रादय इत्यत्रादिपदेन शब्दादिनयानां ग्रहणम् , क्रियायाः प्राधान्ये निमित्तमाह । .,
पृ. ३३ पं. ६ तस्या एव-क्रियाया एवेत्यर्थः ।