________________
१. प्रमाणपरिच्छेदः ।
१२७
पृ. ३२ पं. २४ यया-भ्रमरे पञ्श्चापि वर्णाश्शास्त्रे प्रतिपादिताः तथापि लोकाः भ्रमरं श्याममेव व्यपदिशन्ति तदनुसारेण परेण व्यवहारनयेनापि श्यामो भ्रमर इत्येव व्यपदिश्यत इत्यर्थः । निश्चयनयं प्ररूपयति ।
पृ. ३२ पं. २५ ताविकार्थेति-शास्त्रे सिद्धान्तित एवार्थस्ताविको भवति तात्त्विकमर्थमेव यः स्वीकरोति स नयो निश्चयनय इत्यर्थः ।
पृ. ३२ पं. २६ सपुनः - निश्चयः पुनः पुनश्शब्दोऽयं स्वर्थे, तेन व्यवहारनयादस्य वैशिष्ट्यं प्रतिपाद्यते, तदेव वैशिष्ट्यमाह ।
पृ. ३२ पं. २६ मन्यते इत्यादिना - पञ्चवर्णों अमर इत्यभ्युपगच्छति निश्चयनय इत्यर्थः, कथमस्य पञ्चवर्णत्वं येन श्रद्दधीमहि तद्वयपदेशकस्य निश्चयनयस्य तात्विकार्थाभ्युपगमपरत्वमित्याकाङ्क्षायामाह ।
पृ. ३२ पं. २७ बादरस्कन्धत्वेन तच्छरीरस्य-भ्रमरशरीस्य यदि पञ्चवर्णो भ्रमरस्तर्हि शुक्लरूपादिकमपि श्यामरूपव देतच्छरीरे उपलभ्येव नोपलभ्यते चैतावता श्यामवर्णत्वमेव किमति न कल्प्यते इत्यत आह ।
पृ. ३२ पं. २७ शुक्लादीनां च - सन्त्येव तत्र शुक्लादीनि परं श्यामरूपेणान्तर्भूतानि तिरोभूतानि तान्येतात्रतानुपलक्षणात्प्रत्यक्षेऽभासनात् न त्वनुपलभ्यमात्रेणा सच्वमेव तेषां वादरस्कन्धत्वेन तत्र तेषां सद्भावस्य प्रमितत्वात्, तिरोभवनप्रभावितानुपलभ्यतोऽप्यसच्चे दिवा सूर्यकरावमर्शाभिभूतत्वान्नक्षत्राणामप्यसत्त्वं स्यादित्यर्थः । व्यवहारनिश्चयनययोस्स्वरूपनिरूपणे प्रकारान्तरमावि ष्करोति ।
46
पृ. ३२ पं. २८ अथवा अथवेत्यादिनैव चायं प्रकारः विशेषावश्यके उपदर्शितः, तत्पाठो यथा अथवा यत्किमप्यैकैकस्यैव नयस्य मतं तद्वयवहारः प्रतिपद्यते नान्यत् कुतः, यस्मात्सर्वैरपि प्रकारैर्विशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोति स्थूलदर्शित्वादिति । निश्चयस्तु निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यते ॥ इति निश्वयनयस्य सर्वमतार्थग्राहित्वे प्रमाणत्वं प्रसज्यत इत्याशङ्कय प्रतिक्षिपति ।