________________
जैनतर्कभाषा । .... पृ. ३२ पं. १९ अन्त्यास्तु त्रयः-शब्दसमभिरूढैवम्भूताख्यास्त्रयो नयाः। प्राधान्येनेति एते नयाः शब्दस्य वैलक्षण्येनार्थवलक्षण्यमुशन्ति अर्थान् शब्दवशे स्थापयन्ति यथा कालकारकलिङ्गादिभेदः शब्दगत एव व्युत्पत्तिभेदोऽपि शब्दस्यैव ततोऽर्थभेदमुररीकुर्वन्तः शब्दाद्याखयो नयाः प्रधानभावेन शब्दविषयकत्वाच्छन्दनया इत्यर्थः । अर्पितनयानर्पितनयाभ्यां नयस्य द्वैविध्यमुपदर्शयति ।
... पृ. ३२ पं. २० तथेति-विशेषग्राहिण इति अर्यते विशेष्यते इत्यर्पितो विशेषस्तग्राहिणः सामान्यविशेषात्मकवस्तुनि उक्तेषु नयेषु ये विशेषग्राहिणस्ते अर्पितनयाः कथ्यन्ते इत्यर्थः । .
पृ.३२ पं.२१ सामान्यग्राहिणश्चेति-अनर्पितविशेषितं सामान्यं तद्ग्राहिणः ये पुनः सामान्यमेव प्राधान्येन गृहन्ति ते नया अनर्पितनया इति व्यप दिश्यन्ते एतेन सामान्यमात्रग्राही स ग्रहोऽर्पितनयः । नगमश्च सामान्यांशं गृह्णन्ननर्पित. नयः, विशेषमवगाहमानश्चार्पितनयः, व्यवहाराद्यास्तु विशेषमात्रग्राहिणोऽपितनया एवेति अथवाऽर्पितानर्पितनयो समयप्रसिद्धावेवावगन्तव्याविति विवेकः । तद्विभजनफलमुपदर्शयति।
पृ. ३२ पं. २१ तत्रेति-अर्पितानर्पितनययोर्मध्य इत्यर्थः ।
पृ. ३२ पं. २२ तुल्यमेवेति-विशेषो यतो न गृह्णति नयोऽपितस्ततस्तन्मते सिद्धत्वं साधारणो धर्मस्सर्वेषामविशिष्टमिति तुल्य रूपत्वमित्यर्थः । विशेषग्राह्यर्पितनये तु यावन्त एकसमयसिद्धा भगवन्तस्तेषामेकसमयसिद्धत्वं यद्यपि सामान्ये तथापि तद् द्विसमयसिद्धेषुत्रिसमयादिसिद्धेषु न वर्तते इति भवति विशेषस्तेन तुल्यतैकसमयसिद्धानामेव भगवतां तदभावादेव द्विसमयादिसिद्ध स्सह न तुल्यता यावन्तश्च द्विसमयसिद्धा भगवन्तस्तेषां द्विसमयसिद्धत्वलक्षणेनैकसमयादिसिव्यावृत्तेन धर्मेण तुल्यता, न तु स्वासमानसमयसिद्धेस्सम तुल्यत्वम्, एवं त्रिसमयादिसिद्धेष्वपि बोध्यम् । व्यवहारनयनिश्चयनयाभ्यामपि नयस्य द्वैविध्यम् , तत्र व्यवहारनयमुपदर्शयति । . पृ. ३२ पं. २४ तथा, लोकप्रसिद्धेति-व्यवहारनयमुदाहरति । ...