________________
१. प्रमाणपरिच्छेदः।
२२५ पृ. ३२ पं. १३ देवदत्तो यज्ञदत्त इतिः-संयोगसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः संयोगिद्रव्यशब्दः समवायसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः समवायिद्रव्यशब्द इत्येवमुभयविधस्यापि द्रव्यशब्दस्य क्रियाविशेषप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वमुपपादयति ।
पृ. ३२ पं. १५ संयोगिद्रव्यशब्द:-दण्डिन् शब्दः संयोगिद्रव्यशब्दः दण्डपुरुषयोर्द्रव्ययोसंयोगसम्बन्धस्य भावात् , विषाणिन्शब्दः समवायिद्रव्यशब्दः, विषाणस्यावयवत्वेन गवादेवावयवित्वेनावयवावयविनोस्समवायसम्बन्ध स्य भावात् , यद्यप्यवयवी अवयवे वर्त्तते न त्ववयवोऽवयविनि, एवञ्च विषाणे समवायेन गवादेः सत्वं न तु गवादौ विषाणस्य, तथापि समवायेनाधेयत्वमपि समवाय एवेत्यभिप्रायः । जातिशब्दादिभेदेन शब्दे पश्चविधत्वमननं च व्यवहारनयमाश्रित्य ततश्च तत्कल्पितमेव न तु वास्तविकमतेनादरणीयमित्याह ।
पृ. ३२ पं. १७ पञ्चतयी तु-प्रवृत्तिरिति दृश्यम् , पञ्चतयी पञ्चप्रकारा जात्यादिप्रवृत्तिनिमित्तमाश्रित्य शब्दानां प्रवृत्तिः व्यवहारमात्रमाश्रित्य, यथा पन्था गच्छति कुण्डिका श्रवति अयो दहतीत्यादिरूपचारत एव न तु वस्तुस्थितिमनुरुध्य तथेयमपीति, यदि यथावस्थितवस्तुस्वरूपग्राहिनिश्चयनयादियं स्यात्तदाऽभ्युपगमपथं गच्छेदपि न चैवमित्याह ।
पृ. ३२ पं. १८ न तु निश्चयादितीति अयं नया-एवम्भूतनयः, अर्थनयशब्दनयभेदेन नयविभागमुपदिशति ।
पृ. ३२ पं. १९ एतेषु-उपवर्णितेषु नैगमादिसप्तविधनयेष्वित्यर्थः ।
पृ. ३२ पं. १९ आद्याश्चत्वारः-नैगमसङग्रहव्यवहारर्जुसूत्राः प्राधान्ये. नेति प्राधान्येन सामान्येन सामान्य विशेष वार्थमाश्रित्यैव वस्तुस्वरूपं परिच्छिन्दतो नयविशेषस्वरूपताम्प्रतिपद्यन्ते, सामान्यमात्रविषयकृत्वात्सङ्ग्रहः विभिन्न सामान्यविशेषोभयविषयकत्वान्नैगमः उत्तरोत्तरविशेषविषयकत्वाद्वयवहारः क्षणिक विशेषरूपार्थ विषयकत्वादृजुसूत्र इति सामान्यविशेषोभयात्मकस्यार्थस्यैव सामान्यांश विशेषांश वाऽर्थम्प्राधान्येन गोचरयन्त्येते नया इति अर्थनया उच्यन्त इत्यर्थः ।