________________
जैनतर्कभाषा । पृ. ३२ पं. ७ पशुविशेषस्येति-वात्मकपशोरित्यर्थः । कथं तत्रापि गमनक्रियाविरहकाले गोशब्दव्यपदेश इत्याकाङ्क्षायामाह। तथारूढेरिति गोशब्द: स्य गोत्वावच्छिन्ने शक्तिरेव रूढिः अवयवशक्तिर्योगः समुदायशक्तिः रूढिः तस्यास्सद्भावादित्यर्थः इत्थं समभिरूढाभिमतमुपदर्य तत्त्वार्थे एवम्भूताभिमन्तव्यमुपदर्शयति ।
पृ. ३२ पं. ८ एवम्भूत इति....तक्रियाकाले-ऐश्वर्याद्यनुभवकालएव ।
पृ. ३२ पं. ९ अभिमन्यते-स्वीकरोति, यदैव यन्नामव्युत्पत्तिनिमित्त क्रिया यत्र वर्त्तते तदैव तत्र तन्नाम्ना व्यपदेशो नान्यदपीत्येवमेवम्भूतनयः स्वीकरोतीत्यर्थः, नन्वेवं व्युत्पत्तिनिमित्तक्रियाण एव प्रवृत्तिनिमित्तत्वाभ्युपगमे जातिशब्द-गुणशब्द-क्रियाशब्द-यादृगिच्छिकशब्द-द्रव्यशब्द इत्येवं पञ्च प्रकारत्वं नाम्नां भज्येत, सर्वेषां क्रियाशब्दत्वस्यैव प्राप्तेरिति चेत् , अष्टापत्ति रेवास्माकमित्याह ।
पृ. ३२ पं. ९ न हि....अक्रियाशब्दः-क्रियाभिन्नशब्दः ।
पृ. ३२ पं. १० अस्य-एवम्भूतनयस्य मते इति शेषः, तत्र गोत्वाश्वत्वादिजातिप्रवृत्तिनिमित्तकत्वेन जातिशब्दतयाऽभिमतानां गवादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वं व्यवसाययति ।
पृ. ३२ पं. १० गौरश्व इत्यादि-गुणप्रवृत्तिनिमित्तकतया गुणशब्दत्वे. नाभिमतानां शुक्लादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वोपदर्शने क्रियाशब्दत्वमुपदर्शयति ।
पृ. ३२ पं. १२ शुक्लो, नील इति-प्रतिनियततत्तच्छन्दवाच्यतालक्षणोपाधिविशिष्टवाच्यकत्वेन पुरुषविशेषसङ्केतितत्वेन वाच्यताशब्देन देवदत्तादि शब्दविशिष्टे देवदत्तादिशब्दानां शक्तिरिति तत्तच्छब्दलक्षणोपाधिप्रवृत्तिनिमित्त कतया यदृच्छाशब्दतयाऽभिमतानां देवदत्तादिशब्दानां व्युत्पत्तिनिमित्तक्रिया प्रवृत्तिनिमित्तकत्वोपदर्शनेन क्रियशब्दत्वं सङ्गमयति ।