________________
1. प्रमाणपरिच्छेदः। पृ. ३१ पं. २८ अभेदं त्वर्थगतम्-पर्यायशम्दानामर्थगतभेदन्तूपेक्षते. न प्रतिक्षिपति किन्तु तत्र गजनिमीलिकामवलम्वत इत्युपेक्षत इत्यस्यार्थः । उदाहरति ।
पृ. ३२ पं. १ इन्दनादिति-देवाधिपत्यादिलक्षणैश्वर्यात् । पृ. ३२ पं. १ शकनात्-त्रादिशत्रूणां मारणे सामर्थ्यात् ।
पृ. ३२ पं. २ पूरिणात्-शत्रुपुरादिविध्वंसनात् , पर्यायनयस्य तूरीय भेदमेवम्भूतनयं लक्षयति ।
पृ. ३२ पं. ३ शब्दानामिति-एतन्मते सर्वेषां शब्दानां क्रियाशब्दत्वायुत्पत्तिनिमित्तक्रियैव प्रवृत्तिनिमित्तमित्यभिसन्धाय स्वप्रवृत्ति निमित्तभूतेत्युक्तं, अत्र स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थवाच्यत्वेनाभ्युपगच्छनिति लक्षणम् , एवम्भूत इति लक्ष्यम् , अभ्युपगच्छन्नित्यनन्तरमभिप्रायविशेष इति दृश्यम् , उदाहरति ।
पृ. ३२ पं. ४ यथेन्दनमिति-ऐश्वर्यम् , समभिरूढनयोऽपि व्युत्पत्तिमेदनिमित्तकसंज्ञाभेदतोऽर्थभेदमभ्युपगच्छति एवम्भूतोऽपि तथेति किं कृतोऽनयो. मेंद इत्यपेक्षायामाह।
पृ. ३२ पं. ४ समभिरूढनयो हीति-यदैश्वर्याद्यनुमवति वासवादिर्यदा च नानुभवति उभयकालेऽपि तन्द्रादिशब्दव्यपदेश्यत्वं समभिरूढनयो यतः स्वीकरोतीत्यर्थः । इन्दनादिक्रियाऽभावकाले व्युत्पत्तिनिमित्तभूताया इन्दनादि. क्रियाया अभावात्कथं तत्रेन्द्रादिशन्दप्रवृत्तिरित्यपेक्षायामाह ।
पृ. ३२ पं. ६ क्रियोपलक्षितेति-यदा कदाचिदिन्दनादिक्रियाया अधिः करणे वर्तमानं यद्वासवत्वादिलक्षणं सामान्यं तस्यैव इन्द्रादिशब्दप्रवृत्ती निमित्तत्वेन तस्येन्दौदिक्रियाशून्यकालेऽपि वासवादी सत्त्वेन तबलादिन्द्रादिव्यपदेशस्य सम्भवादित्यर्थः । दृश्यते च व्युत्पत्तिनिमित्तक्रियाया अभावदशायामपि तत्समानाधिकरणसामान्यविशेषलक्षणप्रवृत्तिनिमित्तवलाच्छन्दव्यपदेश्यत्वमिति नादृष्टचरीयं कल्पनेत्याह।