________________
बेनतर्कभाषा । पृ. ३१ पं. २४ सन्तिष्ठते-उपसर्गमेदेनेत्यनन्तरमेकचात्वर्थस्यापि मेदन तिपत्तिरिति दृश्यम् , ऋजुसूत्राभिमतस्य क्षणिकस्यैकस्यार्थस्य कालकारकलिङ्गाह. वाप्तभेदकशब्दभेदेनाभेदमुररीकुर्वाणं शब्दनयं लक्षयित्वा पर्यायार्थिकस्य तृतीय भेदं समभिरूढनयं लक्षयति ।
पृ. ३१ पं. २६ पर्यायशब्देषु-सममिरोहन्नित्यन्तं लक्षणं समभिरूढ इति लक्ष्यम् एकप्रवृत्तिकाविभिन्नानुपूर्वीसङ्घटितवर्णसमुदायलक्षणाः शन्दाः पर्यायशब्दाः यथा घट-कुट-कुम्भ-कलसादयस्तेषु निरुक्तिभेदेन घटते चेष्टते इति घर्टी, कुटति कौटिल्यमनुभवतीति कुटः, कुः पृथिवी ताम्भासयतीति कुम्भः, कं जलं लसति यत्र स कलस इत्येवं व्युत्पत्तिभेदेन, ___पृ. ३१ पं. २६ भिन्नम्-पृथगेव, अर्थवाच्यं सममिरोहन् प्रतिपादयन् अभिप्रायविशेषः समभिरूढनय इत्यर्थः । शब्दनयात्पूर्वमभिहितात्सम्प्रत्येत्य पराभिधानात्समभिरूढस्य भेदं स्पष्टयति शब्दनयो हीति ।
पृ. ३१ पं. २७ हि-यतः पृ. ३१ पं. २७ शब्दनयः-साम्प्रतनयः
पृ. ३१ पं. २७ पर्यायभेदेऽपि-एकस्य घटरूपार्थस्य घट-कुट-कुम्भादिनामभेदेऽपि।
पृ. ३१ पं. २७ अर्थाभेद-घटरूपार्थस्यैक्यम् ।
पृ. ३१ पं. २७ अभिप्रैति-इच्छति, समभिरूढस्तु समभिरूढाख्यनयः पुनः।
पृ. ३१ पं. २८ पर्यायभेदेन-नाम्ना भेदे । पृ. ३१ पं. २८ अर्थान-संज्ञिनः ।
पृ.३१ पं. २८ भिन्नान्-घटवाच्यात्कुटवाच्यो मिन्नः कुटवाच्यात्कुम्भवाच्यो भिन्न इत्येवं नानाभूतान् ।
पृ. ३१ पं. २८ अभिमन्यते-स्वीकुरुते, समभिरुढाभासावधवच्छिषये आह।