________________
१. प्रमाणपरिच्छेदः ।
पृ. ३१ पं. १७ तदधिकरणभूतमिति-पर्यायार्थिकस्य प्रथममेदमृजुसूत्रं लक्षयित्वा द्वितीयभेदं शब्दनयं लक्षयति ।
२२१
पृ. ३१ पं. १९ कालादिभेदेनेति - क्षणमात्रस्थायित्वमर्थस्य पर्यायार्थकेनयभेद चतुष्टयेऽपि साधारणं, ऋजुसूत्रात्परं शब्दनये कालादिभेदेन शब्दस्य भिन्नार्थत्वं विशेषः, ऋजुमूत्रनयो हि कालादिभेदेऽपि शब्दस्य वाच्य भेदं नेच्छतीति ।
पृ. ३१ पं. १९ ध्वनेः - शब्दस्य
पृ. ३१ पं. १९ अर्थभेदं - वाच्य भेदं प्रतिपद्यमानः स्वीकुर्वाणः अभिप्राय इति दृश्यम् एतावलक्षणम् ।
पृ. ३१ पं १९ शब्दः – शब्दनयः इति लक्ष्यम् । कालादिभेदेनेत्युक्तं, तत्र के कालादय इति जिज्ञासायामाह ।
पृ. ३१ पं. १९ कालेति-तत्र कालभेदनार्थमेदमुदाहरति ।
पृ. ३१ पं. २० तत्रेति - कालादिभेदेषु मध्य इत्यर्थः कारकभेदेनार्थभेदमुदाहरति ।
पृ. ३१ पं. २२ करोतीति - कारक भेदेनेत्यन्तरं कुम्भस्य भेदप्रतिपत्तिरिति दृश्यं, लिङ्गभेदेन ध्वनेरर्थ भेदमुदाहरति ।
पृ. ३१ पं. २२ तट इति - लिङ्गभेदेनेत्यनन्तरं तटस्य भेदप्रतिपचिरिति दृश्यम् सङ्ख्याभेदेन ध्वनेरर्थभेदमुदाहरति ।
पृ. ३१ पं. २३ दारा इति - सङ्ख्या भेदेनेत्यन्तरं स्त्रीरूपार्थस्य भेदप्रतिपतिरिति दृश्यम्, पुरुषभेदानार्थ भेदमुदाहरति ।
पृ. ३१ पं. २३ यास्यसीति - यास्यसीति सम्बोध्ये मध्यमपुरुषे प्रयुज्यते, यास्यतीति अन्य पुरुषे स्वसम्बोध्यभिने उत्तममध्यमभिन्ने तृतीयपुरुषे प्रयुज्यत इति पुरुषमेदः, पुरुषभेदेनेत्यन्तरमेकस्यापि भविष्यत्कालीन प्रयाणकर्त्तरर्थस्य मेदप्रतिपत्तिरिति दृश्यम् उपसर्ग मेदमुदाहरति । ।