________________
३२०
तर्कभाषा ।
पृ. ३१ पं. १२ येनाभिसन्धिना - येनाध्यवसायविशेषेण क्रियते । पृ. ३१ पं. १२ स--अभिप्रायविशेषो व्यवहारनय इत्यर्थः । उदाहरति ।
पृ. ३१ पं. १३ यथा... जीवादीति - जीवास्तिकायः पुद्गलास्तिकायः धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः कालश्चेत्येवं षट्प्रकारकं द्रव्यमित्यर्थः
पृ. ३१ पं. १४ क्रमभावी - द्रव्योत्पत्यनन्तरं यो सदा कदाचिद्भवति संयोगादिरुत्क्षेपणादिः रक्ततरत्वादिर्वा स पर्यायः ।.
पृ. ३१ पं. १४ सहभावी - यो- द्रव्येणाधारेण सहैवोत्पद्यते रूपरसगन्धस्पर्शादिर्गुणः स सहभावी पर्यायो बोध्यः । ऋजुसूत्रनयं लक्षयति ।
"
पृ. ३१ पं. १५ ऋज्विति - अभिप्राय इत्यन्तं लक्षणम् ऋजुसूत्र इति लक्ष्यम् अन्वयार्थोपदर्शनेन लक्षणेऽस्मिन् ऋवित्यस्य वर्तमानक्षणस्थायिपर्यायमात्रमित्यर्थकथनम् एवञ्च भूतकालवृत्तित्वे कौटिल्यमित्यभिसन्धानकुटिलतारूपत्वं च तयोरर्थेऽसम्भवादिति । सूत्रयति सूचयतीति सूत्रमितिव्युत्पत्तिमवलम्ब्य भासताव्यच्छेदप्राधान्यत इत्युपादाय च सूत्रमित्यस्य प्राधान्यतः सूचयन्नित्यर्थकथनम् । नयत्वादेवाभिप्रायत्व प्राप्तमित्याशयेनाभिप्राय इति । उदाहरति ।
पृ. ३१ पं. १६ यथा सुखविवर्तः - सुखाख्यपर्यायः
पृ. ३१ पं. १६ सम्प्रति — वर्तमानकाले
पृ. ३१ पं. १६ अस्ति-वर्त्तते, उदाहृतस्य ऋजुमूत्र लक्षण योगम्भावयति । पृ. ३१ पं. १६ अत्रेति - सुखविवर्त्तस्सम्प्रत्यस्तीत्यस्मिन्नित्यर्थः ।
पृ. ३१ पं. १६ हि यतः, वर्त्तमानकालः क्षणमात्ररूप एवास्मिन्नये इष्ट इत्यतः क्षणस्थायीत्युक्तं, सुखस्य तदाधारस्यात्मनश्च सच्चेऽपि सुखसत्त्वसम्भवातदवगाहने न निरुक्तलक्षणसमन्वय इत्यत उक्तं पर्यायमात्रमिति, पर्यायमात्र प्रदर्शने तदाभासेऽपि समस्तीत्यतः प्राधान्येनेति, प्रधानतया पर्यायमात्रस्य प्रदर्शनं तदैव भवेत् तदाधारस्यात्मद्रव्यस्य गौणतयाऽवगाहनलक्षणमनर्पितत्वम्भवेदतस्तदुपदर्शयति ।