________________
१. प्रमाणपरिच्छेदः। पृ. ३१ पं. ८ तत्रेति-परापरसङ्ग्रहयोर्मध्य इत्यर्थः । अशेषविशेषौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रममिमऽन्यमान इति लक्षणं परस्सङ्ग्रह इति लक्ष्यम् , अशेषेषु द्रव्यत्वाद्यवान्तरसामान्यतदाधारव्यक्तिविशेषेषु गजनिमीलिकामवलम्बमानः सत्तालक्षणमहासामान्यस्वरूपं पर्यायामिश्रितद्रव्यमेव यो विषयीकरोति एवम्भूतो बोधविशेषः परसङ्ग्रह इत्यर्थः उदाहरति ।
पृ. ३१ पं. ९ यथेति-सर्व हि वस्तु सत्सदित्येवं भाति ततो वस्तुमात्रं सदेव भवति, घटः पट इत्यादिकं तु व्यावृत्तत्वान वस्तुरूपं "आदावन्ते च यत्रास्ति वर्तमानेऽपि तत्तथेति" सच्वमेव वस्तु नः पारमार्थिक रूपं तचैकमिति तदात्मकं विश्वमप्येकं सदविशेषात्सद्रूपस्य सर्वत्र साधारणत्वात्, रूपान्तरस्य तु अननुगामितया कल्पितत्वेन ततो विश्वस्य मेदासम्भवादित्यर्थः । अपरसङ्ग्रहं लक्षयति ।
पृ. ३१ पं. ९ द्रव्यत्वादीन्यवान्तर-अपरसग्रह इति लक्ष्यनिर्देशः द्रव्यत्वादीनीत्यादिलक्षणनिर्देशः। अवान्तरसामान्यानि-महासामान्यसचाव्याप्यजातीनि, द्रव्यत्वादीनीत्यादिपदाद् गुणत्वपर्यायत्वादेरुपग्रहः ।
पृ. ३१ पं. १० मन्वान:-स्वीकुर्वाणा, तद्भेदेषु द्रव्यमेदेषु जीवपुद्गलधर्माधर्मास्तिकायादिषु द्रव्यत्वावान्तरसामान्यलिङ्गिते गजनिमीलिकत्वात् औदासी. न्यम् । अन्यत्स्पष्टम् । अस्योदाहरणं जीवादिकमेकमेव द्रव्यविशेष्यादित्यायूहनीयम् । व्यवहारनयं लक्षयति ।
पृ. ३१ पं. ११ सङ्ग्रहेणेति-सङ्ग्रहेणेत्यादि सेत्यन्तं लक्षणं व्यवहार इति लक्ष्यम् , सामान्यग्राहिणा सङ्ग्रहनयेन सामान्यत्मना विषयीकतानां विशेषोत्मनामर्थानां विधिपूर्वकं स्वस्वाधारणरूपाभिधानपूर्वकं महासामान्यस्य यद्वयाप्यन्तदूपेण प्रथममभिधाय तस्य यद्वयाप्यं तद्रूपेण तदालिङ्गितस्य धर्मिणोऽभिधानमित्येवं क्रमेण न तु प्रथमत एव यस्यावान्तरविशेषो नास्ति तद्रूपेणैवाभिधानमिति विभजनक्रमनियमलक्षणविधिपुरस्सरमिति यावत् ।
पृ. ३१ पं. १२ अवहरणम्-विभजनम् ।