________________
जैनतर्कभाषा । पृ. ३१ पं. २ क्षणमेकं सुखी विषयासक्तजीव इति-विषयासक्त जीवलक्षण द्रव्यस्य विशेष्यत्वात्प्राधान्यं सुखस्य तु पर्यायस्य विशेषणत्वादप्रधान्यं तथैव च विवक्षेति सङ्गमयति । __ पृ. ३१ पं. ३ अत्रेति-निरुक्तोदाहरणस्थल इत्यर्थः । ननु वस्त्वंशग्राह्येव नयोऽभिमतः उदाहृतनैगमस्तु द्रव्यपर्यायोभयविषयकत्वेन वस्तुविषयकत्वात्प्रमाणं स्यादित्याशङ्कय प्रतिक्षिपति ।
पृ. ३१ पं. ५ न चैवमिति-एवं उदाहृतनैगमस्य द्रव्यपर्यायोभयविषयकत्वाभ्युपगमे वस्तुनि द्रव्यपर्याययोः प्राधान्येनैव स्वरूपता, तथासत्येव तदात्मकत्वमेकस्य वस्तुनः न हकमेव प्रधानमप्रधानं च सम्भवति, यस्याप्राधान्यं तदुपचरितमेव, न ह्युपचरितं वस्तुरूपं, न हि सिंहत्वेनोपचरितो माणवकः, सिंहो भवति, इत्थं चोदाहृतस्य नैगमस्य प्रधानतया द्रव्यविषयकत्वागौणतया पर्याय. विषयकत्वात्प्राधान्येनोभयावगाहित्वाभावादुभयात्मकवस्त्ववगाहित्वाभावेन न प्रामाण्यमित्याह । ___पृ. ३१ पं. ६ प्राधान्येन तदुभयावगाहिन एव-द्रव्यपर्यायोभयविषकस्यैव, इति नैगमनयनिरूपणम् ॥
__ अथ सङ्ग्रहनयनिरूपणम् । सङग्रहं निरूपयति ।
पृ. ३१ पं. ७ सामान्येति-सामान्यमात्रग्राही परामर्श इति लक्षणं, सङ्ग्रह इति लक्ष्यम् ।
पृ. ३१ पं. ७ परामर्श-निश्चयः अध्यवसायविशेष इति यावत् सामान्यामनाऽवान्तराशेषविशेषविषयकमेव न तु विशेषात्मनो विशेषविषयकं एतादृशं यज्ज्ञानं तत्सङ्ग्रहनय इत्यर्थः । तं विभजते ।
पृ. ३१ पं. ७ स द्वेधा-परस ग्रहोऽपरसङग्रहश्चेत्येवं द्विप्रकारः सङग्रह इत्यर्थः। परसङ्ग्रहं लक्षयति ।