________________
१. प्रमाणपरिच्छेदः । पृ. ३० पं. १९ विशेषत्वेन-सञ्चैतन्यमित्यत्र चैतन्यं विशेष्यं सवं च विशेषणमित्यतो विशेष्यलेन, सत्त्वाख्यस्य वित्यत्रापि व्यञ्जनपर्यायस्येति सम्ब
थते, यथा कालत्रयानुगामिचैतन्यं तथा प्रतिविशिष्टसत्त्वमपीति व्यजनपर्यायः क इत्यपेक्षायामाह।
___ पृ. ३० पं. २० प्रवृत्तिनिवृत्तीति-यद्धर्मसम्बन्धाश्चेतनादिशब्दस्यार्थविशेषे प्रवृत्तिः, यद्भर्मासम्बन्धाच्च तस्यार्थविशेषे निवृत्तिस्तन्निबन्धना याऽर्थकि. याऽयं चेतनोऽयमचेतन इत्यादिव्यवहृतिलक्षणा तत्कारित्वोपलक्षितस्तत्स्वरूपयो ग्यत्ववान् न हि चैतन्यादिसच्चे उक्तार्थक्रिया सर्वदा भवत्येव व्यवहारकर्तरभावे. वा व्यवहृतीच्छाद्यभावे वा व्यवहृतेरभावादतो निरुक्तार्थक्रियाकारित्वं चैतन्या. देयंजनपर्यायतासम्पादकं विशेषणन्न भवति तथासति तथाव्यवहृतिजननाभावदशायां चैतन्यादेर्व्यञ्जनपर्यायत्वाभावाप्रसङ्गात् । अर्थक्रियास्वरूपयोग्यता तु सहकार्यन्तरविरहात्कार्याजननेऽपि न व्यावर्त्तत इत्यभिसन्धानेनार्थक्रियाकारित्ववि. शिष्ट इत्यनुक्त्वार्थक्रियाकारित्वोपलक्षित इत्युक्तम् , एवम्भूतो यः पर्यायः स न्यजनपर्याय इत्यर्थः । तत्किमन्योऽपि पर्यायोऽस्ति येन व्यजनपर्याय इति विशिष्योच्यते इति चेदस्त्येवार्थपर्यायस्तहि स कीदृग्रूप इत्यपेक्षयामाह ।
पृ. ३० पं. २१ भूतेति-यः पर्यायोऽतीतकालेऽनागतकाले च धर्मिणि न सत्तामनुभवति किन्तु वर्तमानेकालावच्छेदेनैव तत्र वर्त्तते एवम्भूतो यो वस्तुस्वरूपपर्यायः प्रतिक्षणमन्योन्यस्वरूपभवनलक्षणः सोऽर्थपर्याय इत्यर्थः । द्रव्ययोमुख्यामुख्यरूपतया विवक्षणपरं नैगममुदाहरति ।
पृ. ३० पं. २२ वस्तुपर्यायवद्रव्यमिति-अत्र विशेषणीभूतं वस्त्वपि द्रव्यं, विशेष्यीभूतं पर्यायवद्र्व्यमित्यपि द्रव्यम् , तत्र विशेषणत्वादेकस्यामाधान्यं द्वितीयस्य तु प्राधान्यमिति तथैव विवक्षणमिति स्पष्टयति ।
पृ. ३० पं. २३ पर्यायवद्रव्याख्यस्येति-पर्यायद्रव्ययोर्मुख्यरूपतया विवक्षणपरं नैगममुदाहरति ।
२८