Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 269
________________ २५४ जेजतर्कभाषा। पृ. ३७ पं. ५ यथा-हयनुपयुक्तो-पूर्वमनुपयुक्तो वक्ता स एवोत्तरकाले उपयुक्ततादृशाभ्यामुपयोगात्मनापरिणतो भवतीत्युपयोगपरिणामलक्षणभावकारणत्वाद् द्रव्यमिति एवं य इदानीं जीवः साधुपर्यायमनुभवति स प्रेत्य देवेन्द्रो भविष्यति ततः सद्भावदेवेन्द्रपरिणतेरुत्तरकालभावेन्द्रकारणत्वाद् द्रव्येन्द्र इत्यर्थः। पृ. ३७ पं. ७ न तथेति-नामेन्द्रः स्थापनेन्द्रश्च न सद्भावेन्द्ररूपपरिणतेः कारणमिति न तयोभावपरिणामकारणत्वमिति वैधाद् द्रव्यं नामस्थापनाम्यां भिन्नमित्यर्थः । स्थापनाद्रव्यगतौ विभिन्नौ यो धर्मावनन्तरमुपदशितौ तच्छून्यत्वरूपधर्मवत्त्वान्नामापि स्थापनाद्रव्याभ्यां भिद्यत इत्याह । पृ. ३७ पं. ८ नामापि-दृष्टान्तावष्टम्भेन नामस्थापनादीनां भेदाभेदाबुपदर्शयति । पृ. ३७ पं. ८ दुग्धतकादीनाम्-तथा च स्याद्वादोऽत्रापि पदमादधातीति हृदयम् । मावेन्द्रस्य स्वर्गपालनादिकं यत्कार्य तन्नामेन्द्रो गोपालदारकादिः स्था. पनेन्द्र इन्द्रप्रतिमादिः द्रव्येन्द्रः साधुजीवादिर्वा न कतुं समर्थ इति प्रति नियताथक्रियाकारित्वाद् भावेन्द्र एव वस्तु, न तु नामेन्द्रादिरिति तदर्थशून्यैर्नामादिनि:क्षे पैरलमति शङ्कते। पृ. ३७ पं. ११ ननु भाव....तदर्थशून्यैः-भावार्थरहितः । इन्द्र. शब्दार्थों हीन्द्रवन्नामतदाकारतत्कारणचतुष्टयात्मको वस्त्वेवेति भावेन्द्रवन्नामादीनामपि वस्तुपर्यायत्वमविशिष्टमेव उक्तचतुष्टयान्यतमस्य यत्कार्य तदिन्द्रशब्दार्थकार्यम्भवत्येवेति सामान्यत इन्द्र कार्यकारित्वं सर्वेषामविशिष्टमेव यथा अनन्तधर्मात्मके वस्तुनि प्रत्येकधर्मस्य यत्कार्य तदपि वस्तुकार्यम्भवत्येव, अन्यथा तदात्मकत्वमेव वस्तुनो न स्यादित्याशयेन समाधत्ते। पृ. ३७ १२ न नामादीनामपि-इन्दोत्र वर्त्तते, इन्द्रोऽस्तीत्वेवं नामादिरहितकेवलेन्द्रशब्दोचारणेऽविशेषेण नामेन्द्रादिचतुष्टयस्याप्यवरोधात्, देवानां परिगणनानामवसर इति प्रकरणपरिस्फुर्ती भावेन्द्रस्य गोपालदारकादिसम्मेलनादिप्रकरणे नामेन्द्रस्य देवकुलादौ स्थापनेन्द्रस्य अयमेतत्तपःप्रभावाद्वरणो भविष्यति अयमेतदुपासनयन्द्रपदमलरिष्यतीत्यादितपोमहात्म्यवर्णनमसङ्गे द्रव्ये.

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332