________________
२५४
जेजतर्कभाषा। पृ. ३७ पं. ५ यथा-हयनुपयुक्तो-पूर्वमनुपयुक्तो वक्ता स एवोत्तरकाले उपयुक्ततादृशाभ्यामुपयोगात्मनापरिणतो भवतीत्युपयोगपरिणामलक्षणभावकारणत्वाद् द्रव्यमिति एवं य इदानीं जीवः साधुपर्यायमनुभवति स प्रेत्य देवेन्द्रो भविष्यति ततः सद्भावदेवेन्द्रपरिणतेरुत्तरकालभावेन्द्रकारणत्वाद् द्रव्येन्द्र इत्यर्थः।
पृ. ३७ पं. ७ न तथेति-नामेन्द्रः स्थापनेन्द्रश्च न सद्भावेन्द्ररूपपरिणतेः कारणमिति न तयोभावपरिणामकारणत्वमिति वैधाद् द्रव्यं नामस्थापनाम्यां भिन्नमित्यर्थः । स्थापनाद्रव्यगतौ विभिन्नौ यो धर्मावनन्तरमुपदशितौ तच्छून्यत्वरूपधर्मवत्त्वान्नामापि स्थापनाद्रव्याभ्यां भिद्यत इत्याह ।
पृ. ३७ पं. ८ नामापि-दृष्टान्तावष्टम्भेन नामस्थापनादीनां भेदाभेदाबुपदर्शयति ।
पृ. ३७ पं. ८ दुग्धतकादीनाम्-तथा च स्याद्वादोऽत्रापि पदमादधातीति हृदयम् । मावेन्द्रस्य स्वर्गपालनादिकं यत्कार्य तन्नामेन्द्रो गोपालदारकादिः स्था. पनेन्द्र इन्द्रप्रतिमादिः द्रव्येन्द्रः साधुजीवादिर्वा न कतुं समर्थ इति प्रति नियताथक्रियाकारित्वाद् भावेन्द्र एव वस्तु, न तु नामेन्द्रादिरिति तदर्थशून्यैर्नामादिनि:क्षे पैरलमति शङ्कते।
पृ. ३७ पं. ११ ननु भाव....तदर्थशून्यैः-भावार्थरहितः । इन्द्र. शब्दार्थों हीन्द्रवन्नामतदाकारतत्कारणचतुष्टयात्मको वस्त्वेवेति भावेन्द्रवन्नामादीनामपि वस्तुपर्यायत्वमविशिष्टमेव उक्तचतुष्टयान्यतमस्य यत्कार्य तदिन्द्रशब्दार्थकार्यम्भवत्येवेति सामान्यत इन्द्र कार्यकारित्वं सर्वेषामविशिष्टमेव यथा अनन्तधर्मात्मके वस्तुनि प्रत्येकधर्मस्य यत्कार्य तदपि वस्तुकार्यम्भवत्येव, अन्यथा तदात्मकत्वमेव वस्तुनो न स्यादित्याशयेन समाधत्ते।
पृ. ३७ १२ न नामादीनामपि-इन्दोत्र वर्त्तते, इन्द्रोऽस्तीत्वेवं नामादिरहितकेवलेन्द्रशब्दोचारणेऽविशेषेण नामेन्द्रादिचतुष्टयस्याप्यवरोधात्, देवानां परिगणनानामवसर इति प्रकरणपरिस्फुर्ती भावेन्द्रस्य गोपालदारकादिसम्मेलनादिप्रकरणे नामेन्द्रस्य देवकुलादौ स्थापनेन्द्रस्य अयमेतत्तपःप्रभावाद्वरणो भविष्यति अयमेतदुपासनयन्द्रपदमलरिष्यतीत्यादितपोमहात्म्यवर्णनमसङ्गे द्रव्ये.