________________
१. प्रमाणपरिच्छेदः। प्रयाणामविशेषेऽपि रूपान्तरेणान्योन्यव्यावृत्तेनासाधारणेन त्रयाणां मेदसम्भवाच्चतुर्धाविभजनं युक्तमेवेत्ति समाधत्ते।
पृ. ३६ पं. २५ न अनेन रूपेण-भावार्थशून्यत्वादिना । पृ. ३६ पं. २६ रूपान्तरेण-अनन्तरवक्ष्यमाणधर्मेण ।
पृ. ३६ पं. २६ तङ्गेदोपपत्तेः-नामादित्रयभेदसम्भवाद, नामादित्रयाणां मेदमेव भावयति ।
पृ. ३६ पं. २६ तथा हि-स्थापनानामेन्द्राभ्यां भिद्यते आकाराभिप्रायबुद्धिक्रियाफलदर्शनादिति योजनयाऽयनात्रानुमामप्रयोगः स्पष्टं प्रतिभासते, आकारश्चाभिप्रायश्च बुद्धिश्च क्रिया च फलश्चाकाराभिप्रायबुद्धिक्रियाफलानि तेषां दर्शनादिति, अयं च हेतुः स्थापनायां वर्चते, नामद्रव्ययोश्च न वर्त्तते इति भवति विरुद्धधर्मस्वरूपत्वाद्भेदलक्षणसाध्याविनाभूत इत्युपपादयितुमाकारादीनां स्थाप. नायां सत्वं । नामद्रव्ययोश्चासत्त्वमुपदर्शयति । ..
पृ. ३६ पं. २८ यथा हि...तदाकारदर्शनात्-प्रतिमागतस्य लोचनसहस्रादिविरचनाविशेषलक्षणमुख्येन्द्रशरीरसंस्थानसशसंस्थानदर्शनात् ।
पृ. ३७ पं. २ तत्फलं च-नमस्करणक्रियाफल जिनप्रतिबिम्ब पूजनफलन्तु
अभ्यर्चनादहतां मनःप्रसादस्ततः समाधिश्च ।
तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥ इति तत्वार्थाधिगमभाष्यकारिकायां परम्परया मुक्तिफलमुपदिष्टम् ।
पृ. ३७ पं. ३ न तथेति-दर्शिताकारादिकं नामेन्द्रे द्रव्येन्द्रे च न संवीक्ष्यत इत्यर्थः।
पृ. ३७ पं. ३ ताभ्याम्-नामेन्द्रद्रव्येन्द्राम्याम् । पृ. ३७ पं. ३ तस्य-स्थापनेन्द्रस्य ।
पृ. ३७ पं. ४ द्रव्यमपीति-द्रव्यं नामस्थापनाम्यां भिद्यते भावपरिणामिकारणस्वादित्यनुमानप्रयोगोऽत्र स्पष्टं प्रतिभासते, उक्तहेतोः द्रव्ये सत्त्वं नामस्थापनयोरसत्त्वमिति भवति मेदनियतत्वमित्युपपादयति !