________________
जैनतर्कभाषा ।
३५१
पृ. ३६ पं. १८ - यथेति नतु भवनं विवक्षितक्रियानुभूतिविशिष्टतया परिणमनं भाव इति व्युत्पत्तिः, परमार्थतः शब्दवाच्यं घटत इति तत्र भावनिक्षेपो नाम को निःक्षेपोऽसद्धिनेषु तु नामादिषु त्रिषु निःक्षेपेषु भाववियुतेषु परस्परार्थानुगतिमत्सु विरुद्धधर्माध्यासाभावादैक्यमेव युक्तमिति द्विधैव निःक्षेपविभजन युक्तं न चतुर्धेति परः प्रत्यवतिष्ठते ।
पृ. ३६ पं. १९ ननु भाववर्जितानाम्-नामादीनामित्यत्रादिपदात् स्थापनाद्रव्ययोः परिग्रहः ।
पृ. ३६ पं. १९ प्रतिविशेषः - भेदः ।
पृ. ३६ पं. १९ त्रिष्वपि - नाम - स्थापना - द्रव्येषु ।
पृ. ३६ पं. २० वृत्र्यविशेषात् सङ्केतविशेषणवृत्तेः प्रवर्तनस्य अविशेषात् साधारण्यात् वृत्त्यविशेषमेवोपपादयति ।
पृ. ३६ पं. २० तथाहि - तत्र प्रथमं नामनिःक्षेपस्य वृच्य विशेषं दर्शयति । पृ. ३६ पं. २० नामेति - तावदिति वाक्यालङ्कारे ।
पृ. ३६ पं. २१ वर्त्तते - प्रवर्त्तते इन्द्रनाम्ना नामेन्द्र - स्थापनेन्द्र-द्रव्येन्द्राणां त्रयाणामपि व्यपदेशात्, यद्यपि भावेन्द्रस्यापि तेन व्यपदेशः तथापीन्दनादिक्रियानुभूतियुक्तत्वस्यान्यत्रावर्त्तमानस्य तत्रैव भावतो नामादितो वैलक्षणस्य योगादस्तु पृथकत्वमित्यभिसन्धिः स्थापनायात्रिषु नामादिष्वविशेषवृत्तिं दर्शयति ।
पू. ३६ पं. २१ भावार्थशून्यत्व.... त्रिष्वपि - नामस्थापनाद्रव्येषु, एवमग्रेऽपि ।
पृ. ३६ पं. २२ भावस्य-भावार्थस्य द्रव्यनिःक्षेपस्य त्रिष्वविशेषवृत्तिमुपदर्शयति ।
पृ. ३६ पं. २२ द्रव्यमपि - कथं वर्त्तते इत्यपेक्षयामाह ।
पृ. ३६ पं, २३ द्रव्यस्यैव - तथा चैकेन नामनिःक्षेपेण स्थापनानिःक्षेपेण : द्रव्यानिःक्षेपेण वा नामस्थापनाद्रव्यनिःक्षेपाणां विरुद्धधर्माध्यासाभावतस्सङ्ग्रहसम्भवान्निक्षेप द्वयमेव वक्तव्यं न निःक्षेपचतुष्टयमिति प्रश्नयिता स्वपक्षमुपसंहरति ।
पू. ३६ पं. २४ इति विरुद्धधर्माध्यासाभावान्नैषाम् - नाम स्थापनाद्रब्याणाम्, अणुरपि विशेषः प्रतिपत्तिकर इति न्यायात् भावार्थशून्यत्वरूपधर्मेण