________________
१. प्रमाणपरिचोदः । शून्येन अथवा अनाभोगस्वरूपोपदर्शकमेव इहलोकपरलोकाद्याशंसालक्षणेनेति, यदि पूजाविधायकागमार्थोपयोगो भवेत् तदा तहलोकाद्याशंसाप्रतिषिद्धेवि सदाशं. सया जिनपूजां नैव कुर्यादिति तदाशंसाचिनमागमार्थानुपयोगस्य, अप्राध्यान्यादेवात्रापि द्रव्यत्वमित्याह ।
पृ ३६ पं १३ अनुपयुक्तक्रियायाः-साक्षादित्युपादानात्परम्परया मोक्षाङ्गत्वमनुपयुक्तक्रियाया अप्यस्तीति लब्धमेव, स्पष्टप्रतिपत्तये आह ।
पृ ३६ पं १४ भक्त्याविधिनापि...सा जिनपूजादिक्रिया, ननु विध्यभावे सति कथं परम्परया ततः फलमित्यत आह ।
पृ ३६ ५ १६ भक्तिगुणेनाविधिदोषस्य-मक्यभावविशिष्टाविधिरेव कार्यप्रतिबन्धकत्वं तदभावस्य च कारणत्वमित्यभिसन्धिः ।।
पृ ३६ ५ १६ निरनुबन्धीकृतत्वात्-अङ्गवैगुण्यप्रयुक्तजिनपूजागतस्वस्वकार्यानर्जकत्वापादनलक्षणकार्यासाम्मुख्यम् , आचार्याः जैनाचार्याः, अनुपयोगे द्रव्यत्वं विशेषावश्यकेपि प्रतिपादितं तथा च तद्ग्रन्थः “योऽनुपयुक्तो जिनप्रणीता मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति स नोआगमनोज्ञशरीर-मध्यशरीरातिरिक्तं द्रव्यमङ्गलम्, उपयोगरूपोजागमो नास्तीति नोआममतो, ज्ञशरीर -भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता अब तु क्रियापेक्षा, अतस्तव्यतिरिक्तत्वम् अनुपयुक्तस्य क्रियाकरणात्तु द्रव्यमङ्गलता भावनीया उपयुक्तस्तु क्रियायदि गृह्येत सदा भावमङ्गलतैव स्यादिति भावः " इति । इति द्रव्यनिक्षेपनिरूपणम् ।
भावनिक्षेपं निरूपयति।
पृ. ३६ पं. १७ विवक्षितेति-अत्र सेत्यन्तं लक्षणं भावनिःक्षेप इति लक्ष्यम् , विवक्षिता वक्तुर्विषक्षिता या इन्दनादिलक्षणा क्रिया सस्या अनुभवनमनुभूतिस्तया विशिष्टं युक्तं विवक्षितक्रियानुभूतिविशिष्टं स्वतत्वम् इन्द्रादिस्वरूपवस्तुवच्चं, इन्द्रादिशब्देन स्वर्गाधिपत्यादिलक्षणैश्वर्याद्यभिधानाचस्य तत्र घटनाद् भवति तदेवेन्द्रादिशब्दस्य वाच्यतत्त्वं पारमार्थिकपदार्थः, एवम्भूतं यभिःक्षेप्यते अयमिन्द्र इत्येवं रूपेणेन्द्रादिशब्दवाच्यतया स्थाप्यते स इन्द्रादिर्भावनि: क्षेपो भाकेन्द्र इत्यर्थः । उदाहरति ।