________________
नतर्कभाषा पृ. ३६ पं. ६ स-जीवः । पृ. ३६ पं. ७ द्रव्यनिक्षेपः-द्रव्येन्द्र इत्यर्थः । उदाहरति
पृ. ३६ पं. ७ यथाऽनुभूतेति-यः खलु जीवविशेषो देवेन्द्रो भूत्वा तद्योगजनककर्मपरिसमाप्तौ तच्छरीरं परित्यज्य भनुजादियोनौ समुत्पन्नस्तदानों मनुष्योऽपि सन् अनुभूतेन्द्रपर्यायः पूर्वमासादितेन्द्रपर्याय इतिकृत्वा इन्द्रोऽयमिति व्यपदिश्यते यो वेदानी मनुजगतौ वर्तमानो जीव उत्तरकाले मनुजोपभोग्याखिलकर्मपरिशाटे मनुजतनुं विहाय देवेन्द्रत्वपदोपभोग्यकर्मोदयकाले देवगतौ देवेन्द्रो भविष्यत्काले भविष्यति स जीवोऽनुभविष्यमाणेन्द्रपर्यायः इन्द्रोऽयमिति व्यपदि. श्यते तावुभौ ।
.. पृ. ३६ पं. ८ इन्द्रः-द्रव्येन्द्रः, द्रव्यनिःक्षेप इत्यर्थः । कथमनयोरिन्द्रपर्यायाभावकाले इन्द्रपदव्यपदेश्यतेत्यपेक्षायां निदर्शनावष्टम्भतस्तद्वयवस्थामाह।
पृ. ३६ पं. ८ अनुभुतेति-येन घटेन पूर्व घृतधारणं कृतं तस्मिन् अनुभूतघृताधारत्वपर्याये यश्च घट उचरकालं घृतधारणं करिष्यति तस्मिन् । - पृ. ३६ पं. ८ अनुभविष्यमाणघृताधारत्वपर्याये-तदुभयस्मिन् घटे। .. पृ. ३६ पं. ९ घृतधदव्यपदेशवत-लोके अयं घृतघट इति व्यपदेशो यथा भवति तथा ।
पृ. ३६ पं. ९ तत्र-अनुभूतेन्द्रपर्याये, अनुभविष्यमाणेन्द्रपर्याये च जीवे । .. पृ ३६ पं ९ इन्द्रशब्दव्यपदेशोपपत्तेः-अयमिन्द्र इत्येवमिन्द्रशब्दप्रयोगस्य युक्तत्वात् , प्रकारान्तरेण द्रव्यनिक्षेपप्रवृत्तिमुपदर्शयति । - पृ. ३६ पं. क्वचिदप्राधान्येऽपीति-उदाहरति ।।
पृ ३६ पं १० यथाङ्गारमर्दक:-अङ्गारमर्दकसंज्ञक आचार्यविशेषः, तत्र द्रव्याचार्यत्वमुपपादयति ।
पृ ३६ ६ ११ आचार्यगुणरहित.क्वचिदनुपयोगेऽपि-इत्यनन्तरं द्रव्यनिक्षेपः प्रवर्तते इत्यनुकर्मणीयम् , उदाहरति ।
पृ ३६ पं १२ यथाऽनाभोगेनेति-अन्यगतचित्तत्वादिना यथावदुषयोग