________________
१. प्रमाणपरिच्छेदः। दृष्टम् , तत्र हि इन्द्रियार्थसन्निकर्षोत्पन्न ज्ञानमिति लक्षणं प्रत्यक्षामति भलस्प तस्य निर्विकल्पक-सविकल्पकपमाप्रत्यक्षभेदेन द्वैविध्योपदर्शकमव्यपदेश्यमव्यभिचारिव्यवसायात्मकमिति विवेकः यत्तु वस्तु जिनप्रतिमालक्षणं वस्तु । ___ पृ. ३६ पं. २ तदर्थवियुक्तम्-जिनशब्दवाच्यरागद्वेषादिरहितकेवलज्ञानादिगुणालङ्कृतपुरुषधौरेयरूपार्थात्मकन्न भवति । अथ च
पृ. ३६ पं. २ तदभिप्रायेण-तथाविधपुरुषविशेषबोधकत्वेच्छया। पृ. ३६ पं. २ स्थाप्यते-अयं जिन इति निक्षेप्यते । पृ. ३६ पं. ४ स-जिनप्रतिमादिः । पृ. ३६ पं. ४ स्थापनानिक्षेपः-स्थापनाजिन इति तद्वस्तु ।
पृ. ३६ पं. २ चित्रादौ-मित्यादिगतरेखोपरेखादिविहचनसञ्जातजिनशरीराद्याकारनिर्मितविशेषादौ । - पृ. ३६ पं. ३ तादृशाकारम्-वस्तुभूतजिनशरीराकृतिसदृशाकृतिक तदर्थवियुक्तं तदभिप्रायेण स्थाप्यत इत्यस्यात्र सम्बन्धः । एवमक्षादौ च निराकारमित्यादावग्रेऽपि सम्बन्धः, एतत्सद्भूतस्थापनाकथनम् , इत्वरं कश्चित्कालानन्तरमपगमनस्वभावम् । - पृ. ३६५ ४ यावत्कथिकमिति-यावत्पूज्यपूजकादिव्यवहारकालानुगामि, अन्यव्यक्तम् । उदाहरति
पृ. ३६ पं. ५ यथेति-उक्तमुदाहरणद्वयं सद्भूतस्थापनायाः, उपलक्षणं चैतदसद्भूत स्थापनोदाहरणस्यापि । इति स्थापनानिःक्षेपनिरूपणम्। द्रव्यनिक्षे. पनिरूपयति ।
पृ. ३६ पं. ६ भूतस्येति-अत्र स इत्यन्त लक्षणवचनं, द्रव्यनिक्षेप ति लक्ष्यकथनम् , भूतस्य अतीतपर्यायस्य ।
पृ. ३६ पं. ६ भाविनः भविष्यत्पर्यायस्य । पृ. ३६ पं. ६ भावस्य-स्वर्गाधिपत्यादिधर्मालिङ्गितेन्द्रादिरूपार्थस्य ।
पृ. ३६ पं. ६ कारणं-यज्जीवद्रव्यं पूर्वमिन्द्रोऽभूत् , भविष्यति वोत्तरकाले इन्द्रः, निःक्षिप्यते अयमिन्द्र इत्येद्रूपेण स्थाप्यते ।