________________
भवतकमाया। कादौ तहि कथं वर्तते इत्याह तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं सङ्केतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वसते इति पयोया. नभिधेयम् , स्थितमन्याथै अन्वर्थे वा तदर्थनिरपेक्षं यत् क्वचिद्भूतकदारकादौ इन्द्राधभिधानं क्रियते तन्नाम इतीह तात्पर्यार्थः । प्रकारान्तरेणापि नाम्नः स्वरू. पमाह-यादृच्छिकं चेति इदमुक्तं भवति, न केवलमन्तरोक्तं, किन्त्वन्यत्रा. वर्तमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते तदपि नाम, यथाडित्थो डवित्थ इत्यादि, इदश्चोभयरूपमपि कथम्भूत. मित्याह । यावद्रव्यश्च प्रायेणेति यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाप्यवतिष्ठत इति भावः । किं सर्वमपि नेत्याह प्रायेणेति मेरु-द्वीप-समुद्रादिकं नामप्रभूतं यावद्रव्यमपि दृश्यते, किश्चितु अन्यथाऽपि समीक्ष्यते । देवदत्तादिनामवाच्यानां द्रव्याण विद्यमानानामपि अपरागरनामपरावर्तस्य लोके दर्शनात् , सिद्धान्तेऽपि यदुक्तम्-" नाम जावकहियति" तत् प्रतिनियतजनपदादिसंज्ञामेवाङ्गीकृत्य यथोत्तराः कुख इत्यादि, तदेवं प्रकारद्वयेन नाम्नः स्वरूपमत्रोक्तं, एतच्च तृतीयप्रकारस्योपलक्षणं पुस्तकपत्रचित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्याप्यन्यत्र नामत्वेनोक्तत्वादिति" तत्वार्थ टीकायायप्युपपादितो नामनिक्षेपस्तद् ग्रन्थावलोकन सुधीभिः परिशीलनीयः ॥
॥ इति नामनिक्षेपनिरूपणम् ॥
॥ अथ स्थापनानिःक्षेपनिरूपणम् ।। स्थापनानिक्षेप लक्षयति। · पृ. ३६ पं. २ यत्तु-अत्र यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते स इति लक्षणनिर्देशः, स्थापनानिःक्षेप इति लक्ष्यनिर्देशः, चित्रादौ तादृशाकार मित्यादिकं विभागपचनं, तत्र चित्रादौ तादृशाकारमिति सद्भुनस्थापनानिःक्षेपः, अक्षादौ, निराकारमिति असद्भुतस्थापनानिःक्षेपः, चित्रायपेक्षयेत्वरमित्य यात्रकथिकस्थापना निःक्षेपः, नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया व यावत्कथिकमिति यावत्कथिकस्थापनानिःक्षेपः, लक्षणवाक्येऽपि विभागवचनं "इन्द्रियार्थसनिकों पवं ज्ञानमव्यपदेश्यमव्यभिचारिण्यवसायात्मकं प्रत्यक्षम्" इति गौतमस्त्रे