________________
१. प्रमाणपरिवः । दिनामनिष्ठेत्येकमात्रनिष्ठत्वेऽप्यन्यतरनिष्ठत्वसम्भवेऽपि शब्दनिप्ठत्वस्यामावतस्तस्यान्यतरत्वेन सङ्ग्रहो निष्प्रयोजन एवेत्यत आह ।
पृ. ३५ पं. २० तत्त्वत इति-परमार्थत इति यतो विभिन्नावच्छेद्यमर्थनिष्ठत्वं शब्दनिष्ठत्वमतः शब्दार्थाभयपरिणतिरित्यनुक्त्वा शब्दार्थान्यतरपरणतिरित्येवमुक्तिरपि सुसङ्गतेति, यत एव किञ्चिन्नामापेक्षया यावद्व्यभावित्वं किश्चिनामापेक्षया च यावद्र्व्यभावित्वमप्यस्या उपपन्नमिति द्वैविध्यमपीत्याह । मेर्वादिनामापेक्षयेति-तृतीयप्रकारोऽपि नामनिःक्षेपस्य भवति । उदाहरणमात्रोपदर्शनेन तत्स्वरूपमावेदयति ।
पृ. ३५ पं. २२ यथा वा-एतावता नाम्नोऽपि नामनिःक्षेपत्वं, ततश्च प्रधानीभूते इन्द्र शब्दार्थे वासवे इन्द्र इति यन्नाम तदपि नामेन्द्रः, तस्य सहखा. क्षाकारावयवसन्निवेशः स्थापनेन्द्रः तत्कारणीभूतपूर्वावस्थाकलितरूपो द्रव्येन्द्रः वर्तमानस्वर्गाधिपत्यादिगुणभाक् पर्यायान्तरप्रतिपाद्यश्च भावेन्द्र इति निःक्षेपचतुष्टयसमन्वय इति बोध्यम् । नामनिःशेपस्वरूपप्रतिपादनप्रवणो विशेषावश्य कग्रन्थो यथा:--
पायाणभिधेयं ठिश्रमण्णत्थे तयत्थनिरवेक्खं ॥
जाइच्छियं च नामं जावदव्यं च पाएग ॥१॥ व्याख्या ।। यत् कस्मिंश्चित् भृतदारकादौ इन्द्राद्यभिधानं क्रियते तन्नाम भण्यते कथम्भूतं तदित्याह-पर्यायाणां शक्रपुरन्दरपाकशासन-शतमख-हरि प्रभृतीनां समानार्थवाचकानां ध्वनीनाम् , अनभिधेयम् अवाच्यम् , नामवतः पिण्डस्य सम्बन्धी धर्मोऽयं नाम्न्युपचरितः, सहि नामवान् भृतकदारकादिपिण्डः किलैकेन सङ्केतितमात्रेणेन्द्रादिशब्देनाभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्देः, अतो नामयुक्तपिण्डगतधर्मों नाम्न्युपचरितः, पर्यायानभिधे. यमिति-पुनरपि कथम्भूतं तन्नामेत्याह-ठिअमण्णत्थेति विवक्षितभृतकदारकादिपिण्डादन्यश्वासावर्थश्चान्यार्थों देवाधिपादिः सद्भावतस्तत्र यस्थितं भृतकदारकादौ
तु सङ्केतमात्रतयैव वर्त्तने, अथवा सद्भावतः स्थितमन्वर्थे अनुगतः संबद्धः परभै"श्वर्यादिकोऽर्थो यत्र सोऽन्वः, शचीपत्याऽदिः, सद्भावतस्तत्र स्थितं, भृतकदार