________________
नर्कभाषा:
Ke
शब्दवाच्योऽपि भवेत्, स्वर्गाधिपत्यादिकमप्यनुमत्रेच्च, एवम्भूताया नामार्था - न्यतर परिणतिः यद्यपि यस्य गोपालदारकस्येन्द्र इति नाम क्रियते तन्नामनामचतरभेदोपचाराद् गोपालदारकात्मकार्यपरिणतिरेव नामेन्द्रस्तथापि तद्वाचकत्वानाम्नोऽप्युपचारतः परिणतिरित्येवं नामार्थान्यतरपरिणतिस्सा नामनिःक्षेप इत्यर्थः उदाहरति ।
पृ. २५ पं. १७ यथा सङ्केतितमात्रेण - आधुनिक पित्रादिसङ्केतितत्वमात्रेणेत्यर्थः, मात्र पदेन वृद्ध परम्परागतसङ्केतितत्वस्य व्यवच्छेदः, सर्वे सर्वार्थवाचका इत्यत्र इन्द्रपदस्य गोपालदारकेणापि समं वाच्य - वाचकभावस्सम्बन्धोऽस्त्येव परम्परवृद्वपरम्परागतसङ्केताभिव्यक्त एव शाब्दबोधजनकतया शब्दार्थसम्बन्धसो नान्यथेति तथाभूतविशिष्टवाच्यवाचकभावस्यापि व्यवच्छेदः सम्भवत्येव । सङ्केतितमात्रेणेत्यस्य वाच्यस्येत्यनेनान्वयः ।
पृ. ३५ पं. १७ अन्यार्थस्थितेन- अनादितात्पर्य गृहीतसङ्केतबलाद् गोपा लदारकभिन्नवासवरूपार्थस्य तेन, यत एवान्यार्थस्थितत्वमिन्द्रादिशब्दस्य तत एत्र तेन सङ्केतितमात्रेण वाच्यस्य गोपालदारकस्य या परिणतिः सा ।
पृ. ३५ पं. १८ शक्रादिपर्यायशब्दानभिधेया- तस्यां परिणताविन्द्रः शब्दस्य चाधुनिकसङ्केतो न तु तत्समानार्थकस्यापि शक्रादिशब्दस्येति, एवम्भूता परिणतिनमानःक्षेपो नामेन्द्र इत्यर्थः, अथवा यस्य शब्दस्य न पर्यायान्तरं नापि कुत्राप्यर्थेऽनादितात्पर्यमूलक सङ्केतस्तस्यापि डित्थडवित्थादिशब्दस्य गोपालदार के अधुना सङ्केतः क्रियते तत्सङ्केतमात्रेण डित्थडवित्थादिशब्देन वाच्यस्य गोपालदारकस्य परिणतिरपि नामनिःक्षेपो नामडित्यो नाम वित्थ इत्याह ।
पृ. ३५ पं. १८ इयमेवेति -गोपालदारकस्य परिणतिरेवेत्यर्थः । पृ. ३५ पं. १८ वा अथवा यथेत्युपदर्शनार्थः ।
पृ. ३५ पं. १९ अन्यत्रावर्तमानेन -गोपालदारकभिन्नार्थे सङ्केतसम्ब न्धेनावर्त्तमानेन ।
पृ. ३५ पं. १९ यदृच्छाप्रवृत्तेन - अभिनव सङ्केतकर्तृ पुरुपेच्छासम्भूतेन गोपालदारकस्य या परिणतिस्सा गोपालदारकात्मक पिण्डरूपार्थनिष्ठैव नविन्द्रा