________________
प्रमाणपरिच्छेदः
२५५ न्द्रस्य च विशेषतोऽवबोधात् , विशेषावगमकप्रकरणाद्यभावे च विशेषतः एकैकमा. त्रप्रतीतेरभावादित्याह।
पृ. ३७ पं. १३ अविशिष्टे-परामर्शनादिति निश्चयात्मकग्रहणं परामर्शनं तद्भावादित्यर्थः । परामर्शदर्शनादिति प्रागस्तु समीचीनः, तथासति उक्तपरामर्शस्यानुभूयमानत्वलाभेन तथाविधपरामर्शो न भवतीति वक्तुमशक्यम् , अनुभूयमानस्यापलापासम्भवात् , तथासति ततो भाकेन्द्रादिविशेषप्रतिपसिन भवेदेवेत्यत आह ।
पृ. ३७. पं. १४ प्रकरणादिनैव-प्रकारान्तरेण नामादीनां सफलत्वमुफ्दर्शयति ।
पृ. ३७ पं. १४ भावाङ्गत्वेनैव-वा अथवा, भावाङ्गत्वमेवैकं कथमित्या. पेक्षायामाह।
पृ. ३७ पं. १५ जिननामजिनस्थापनेति-यत्र कुत्रचित्पुरुषादौ सद्देतितं जिननाम श्रुत्वाऽपि रागद्वेषाद्यान्तराशेषशत्रुवति भावजिने स्मृतिमारूढे सति भावोल्लासस्य भक्त्युद्रेकस्य श्रोगतस्यानुभवादनुभूयमानत्वात् एवं सर्वथा रागद्वेषादिराहित्यानुमापकलिङ्गविशेषालिङ्गितां जिनप्रतिमा साक्षात्पुरतः पश्यतो भव्यस्य अहमप्येवम्भूतः कदा स्यामित्येवमाशंसालक्षणतद्गुणैकतानतास्वभावात्मकभावोल्लासाविर्भावस्यानुभूयमानत्वात् , परिनिर्वृतस्य निर्वाणम्प्राप्तस्य कालधर्ममुपागतस्य वा मुनेः सम्यग्चारित्रवतः साधोद्वित्र्यादिभवैरेव जिनभावमासादयिष्यतो द्रव्यजिनस्य देहदर्शनाद् द्रष्टुर्भव्यस्य भावविशेषोल्लासस्यानुभूयमानत्वान्नामादित्रयाणां भावाङ्गत्वेनोपयोग एव न निरुपयोगत्वमित्यर्थः । नन्वेवं नामादीनां सर्वेषां वस्तुपर्यायत्वेन भावत्वानतिक्रमे भावाङ्गत्वे च किमिति दैवानगरसमीपं समुपागतवति भावजिनेन्द्र महतीयचरितानामपि लोके पूजाधतिशयाद्याकलितानां राज्ञां समात्यानां सपरिच्छदानां ससामन्तानामहमहमिकया भक्तिभरनिर्भरेण समहोत्सवं नमनादिक्रियाविधानार्थ झटित्येव तत्समीपमुपसर्पणं न तु जिनादिनाम्नि श्रुते जिनादिप्रतिविम्बे स्वपासादसमीपवर्तित्रासादव्यवस्थिते