________________
जैनतर्फभाषा ।
भावजिने वा मुनिप्रकाण्डे वा नगरान्तः प्रविष्टे इत्यतो वक्तव्यः कश्चित्प्रतिविशेषो नामादित्रयसद्भावे इत्यत आह ।।
पृ. ३७ पं. १६ केवलम्-एतावन्मात्रं पदानन्तरमेवाभिधीयते तदित्यर्थः ।
पृ. ३७ पं. १६ अनैकान्तिकम्-एकान्तो नियमः तद्वदैकान्तिकं, न ऐकान्तिकमनैकान्तिकं, नामादित्रयान्यतमसच्चे कदाचिद्भवति भावोल्लासः कदाचिन भवत्यपीति व्यभिचारीत्यर्थः ।।
पृ. ३७ पं. १७ अनात्यन्तिकम्-अत्यन्तमतिशयेनातिप्रकृष्टमन्यातिशा. यिकार्य विदधातीत्यात्यन्तिकं तथा यन्न भवति तदनात्यन्तिकं भावजिनाद्यादृशः प्रकृष्टतमो भावोल्लासो भवति, न तादृशो भावोल्लासो जिननामादित इति नामादिकं भावोल्लासेऽनैकान्तिकमनात्यन्तिकं च कारणं भावजिनस्तु भावोल्लासे ऐकान्तिकमात्यन्तिकच कारणमतस्तेभ्योऽभ्यहितस्स इत्येवं प्रतिविशेष इत्याह ।
पृ. ३७ पं. १७ ऐकान्तिकेति-नैतत्स्वानुभवसंवेद्यमेव विशेषावश्यककारादयः पूज्या अपि एनमर्थमित्थमुशन्तीत्याह ।
पृ. ३७ पं. १८ अनुमन्यते-भावातिरिक्तगतानामपि नामादिनामुक्त दिशाऽस्त्येवोपयोगो वस्तुपर्यायत्वाद्भावाङ्गत्वाचेत्येतावताऽभिहितमित्याह ।
पृ. ३७ पं. १८ एतच्च-अनन्तरपूर्वनिर्दिष्टश्चेत्यर्थः । अथैकवस्तुगतानां नामादीनां त्रयाणां भावाविनाभूतत्वाद्वस्तुत्वमुपपादयति ।।
पृ. ३७ पं. १८ अभिन्नवस्तुगतानां तु-नामस्थापनाद्रव्याणामनुक्रमेण भावाविनाभूतत्वं भावयति ।
पृ. ३७ पं. २० सर्वस्य वस्तुनः इत्यादिना-नामादिषु स्वसम्बन्धित्वेन स्वाभिन्नत्वं सर्वस्य सम्बन्धस्य कथञ्चित्तादात्म्यलक्षणविष्वग्भावनियतत्वाद्वथाप्यस्य यस्यकस्यचित्सम्बन्धस्य सत्वे व्यापकम्य कथश्चित्तादात्म्यस्यावश्यं सद्भाव इति, भावस्य तु साक्षादेव स्वस्वरूपत्वेन वस्तुत्वमिति नामादिभ्यः प्रतिविशेष इत्यावेदयितुं कार्यापन्नस्य च स्वस्येत्यत्र स्वपदोपादानम् । नामादीनां