________________
१. प्रमाणपरिच्छेदः । वस्तुना सह धर्मर्मिभावे सिद्धे सत्येव तदाक्षिप्तसम्बन्धविशेषवलाद्वस्तुस्वसिद्धिरितिधर्मर्मिभावमुपपादयति । ... - पृ. ३७ पं. २२ यदि च... ततः-घटनामतः। पृ. ३७ पं. २३ तत्सम्प्रत्ययो-घटज्ञानम् ।
पृ. ३७ पं. २३ तस्य-घटनामतो घटसम्प्रत्ययस्य । ... पृ. ३७ पं. २३ स्वापृथग्भूतेति-घटनामघटरूपार्थाभिन्नवाच्यवाचकभाव. लक्षणसम्बन्धजन्यत्वादित्यर्थः।
पृ. ३७ पं. २४ इति-एतस्मात् कारणात् सर्व वस्तु साकारमित्याकारलक्षण स्थापनया सह धर्मधर्मिभावादभिन्नत्वमित्युपदर्शयति।
.. पृ. ३७ पं. २४ साकारं च-मतिर्हि अयं घटोऽयं पट इत्यादिरूपेणैव व्यवहारवीथीमवतरतीति घटाद्याकारवत्त्वं तस्याः घटादिशब्दश्च धकारोत्तरटकारोत्तरात्वलक्षणानुपूर्वीस्वरूपाकारसमन्वित एवाभासत इति साकारः, घटादिरपि पृथुबुध्नाद्याकारवानेवानुभूयत इति साकार इत्येवं सर्वस्य साकारत्वमेवसेयमित्याह ।
पृ. ३७ पं. २५ मति-शब्द-नीलाकारः पीताकार इत्येवं मतावाकारानुभूतिः तत्तद्वर्णाव्यवहितोत्तरतत्तद्वर्णत्वलक्षणानुपूर्वीस्वरूपः शब्दे संस्थानविशेषः घटादौ च कम्बुग्रीवाद्यवयवसनिवेशलक्षणसंस्थानविशेष इत्येवमाकारस्य सर्वत्रानुभूयमानस्यापलपितुमशक्यत्वादित्याह । ।
पृ. ३७ पं. २५ नोलाकरेति-सर्वस्य वस्तुनो द्रव्यात्मकत्वं व्यवस्थापयति ।
पृ. ३७ पं. २६ द्रव्यात्मकं च-अनेकावस्थानुगामिरूपत्वं द्रव्यत्वं तत्रा. नुगाम्यननुगामिनोर्मध्येऽनुगामिनो वस्तुनो वस्तुतो वस्तुत्वमनुगामिरूपश्चान्ततः सत्स्वरूपं सर्वत्रानुभूयत एवेति तद्रूपस्य द्रव्यस्य नापलापसम्भव इति दृष्टान्तो पदर्शनपुरस्सरमाह।
पृ. ३७ पं. २७ उत्फणेति-उद्गता प्रसारिता फणा यस्य स उत्फणा, विगता सङ्कुचिता फणा यस्य स विफणः, कुण्डलिताकार: कुण्डलस्वरूपता गोलकरूपता प्राप्तः कुण्डलित आकारो यस्य स कुण्डलिताकार इति त्रिमिरपि