________________
१५८
जैनतर्कभाषा । पर्यायस्समन्वितो यस्सर्पस्तद्वत् , उत्फणोऽपि सर्पस्सर्प एष एवं विफणः कुण्डलिताकारश्चेत्यवस्थामेदेऽपि यथैक एव सर्पस्सर्वदानुगतस्तथा द्रव्यमपि यथाहि तत्त्वत उत्फणविफणादयो न सत्तत्त्वान्तरं तथा पर्याया अपि द्रव्यमेव तत्तत्प
यात्मनाऽऽविर्भतस्वभावं तत्तत्परिणात्मकं भवत्तत्तद्रपेण व्यपदिश्यते तत्तत्पर्या. यात्मतिरोभावे स्वस्वरूपव्यवस्थितं द्रव्यमिति गीयते न विकारो नामतस्तवान्तरमित्याह ।
पृ. ३७ पं. २७ विकाररहितस्येति-एतच्च द्रव्यार्थिकनयमवलम्न्येति गोध्यम् , सर्वस्य वस्तुनो भावात्मकत्वं व्यवस्थापयति ।
पृ. ३८ पं. १ भावात्मकं च-सन्तानात्मकस्यैवेत्येवकारोपादानमत्रापि पर्यायार्थिकनयमाश्रित्य। .., पृ. ३८ पं. २ तस्य-सर्वस्य, उपसंहरति ।
पृ. ३८ पं. २ इतीति-एवंदिशेत्यर्थः ।
पृ. ३८ पं. २ चतुष्टयात्मकम्-नामस्थापनाद्रव्यभावात्मकं, निक्षेपचतुष्टयस्य सर्वव्यापकत्ववादोऽयं प्रमाणवाद एवेत्याह ।
पृ. ३८ पं. २ इति नामादिनयसमुदयवाद इति-नामादीत्यन्तरं नि:क्षेपस्य वक्तव्यत्वे यत्तस्थाने नयेत्यभिधानं तत्तनिःक्षेपाभ्युपगन्ता नयोऽपितत्तन्निःक्षेपशब्दाभिलाप्य इति नामाभ्युपगन्ता नयो नामनयः स्थापनाभ्युपगन्ता नयो स्थापनानयः एवं द्रव्यनयो भावनय इतिवेदनीमिति यद्ययं नयसमुदायवादः तदा सिद्धान्तग्रन्थेऽप्यं वादः सुप्रथितः स्यादिति चेदस्त्येव सर्वस्य वस्तुनो नामादिचतुष्टयात्मकत्वानुमतिर्विशेषावश्यके, तथा च तद्ग्रन्थः “घटपटादिकं यत्किमपि वस्त्वस्ति लोके तत्सर्व प्रत्येकमेव निश्चितं चतुष्पर्यायम् , न पुनर्यथा नामादि नयाः प्राहुः-यथा केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वा प्रयोगः यत्र शब्दार्थबुद्धिपरिणामसद्भावः तत्सर्वं चतुष्पर्यायं चतुष्पर्यायत्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः यथा शशशृङ्गे, तस्माच्छ. ब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमितिभावः, इदमुक्तं भवति अन्योन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वैन परिणतिदृष्टा, अर्थस्यापि पृथुबुध्नोदराद्याकारस्य नामादिचतुष्टयात्मकतयैव