Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 219
________________ मनतर्क भाषा प्रथमभङ्गप्रतिपाद्यास्तित्वेन सहैकधर्मिणि बोधनेच्छया स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः पृथक्कल्पनया स्वद्रव्यादिनाऽस्तित्वलक्षणविधिपरद्रव्यादिना नास्तित्वलक्षणनिषेधयोः प्राधान्यतो युगपत्कल्पनया चायं भङ्गः प्रवर्त्तते । अस्य कथञ्चिदस्तित्वादिप्रकारककथञ्चिदवक्तव्यत्वप्रकारकघटाद्ये कथमि विशेष्यकवोध जनकवाक्यत्वंलक्षणम्, सप्तमभङ्गेऽतिव्याप्तिवारणाय कथञ्चिदस्तित्वादिप्रकारकेत्यस्य पृथक् कथञ्चिदस्तित्वादिविधिमात्र प्रकार केत्येवंपरता विवक्षणीया, सप्तमभङ्गजन्यबोधे च पृथक्कथञ्चिन्नास्तित्वादिनिषेधप्रकारको भवतीति तद्वारणम्, एतावतैव सप्तभङ्गात्मक महावाक्येऽपि नातिव्याप्तिः तज्जन्यमहावाक्यार्थबोधे पृथक्कथञ्चिन्नास्तित्वादिनिषेधस्यापि प्रकारत्वात् सूक्ष्मविचारणायां च कथञ्चिदस्तित्वसम्वलित कथञ्चिदवक्तव्यत्वोक्त्या पञ्चमं धर्मान्तरमेव बोध्यते तच्चेत्थमेवोल्लखितुं शक्यते नान्यथेति तत्पतिपादकं स्यादस्त्वेवस्यादवक्तव्यमेवेति भङ्ग इति, तथाच तथाविधविलक्षचर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणं पर्यवस्यतीति ॥ इति पश्चमभङ्गनिरूपणम् ॥ ॥ अथ षष्ठभङ्गनिरूपणम् ॥ २०४ षष्ठं भङ्गन्निरूपयति ॥ पृ. २८ पं. १ स्यानास्त्येवेति चतुर्थद्वितीयधर्मसम्मेलनोपस्थापितपष्ठधर्मप्रतिपादकतयाऽयं भङ्गः प्रवर्त्तते, अस्य पृथक्कथञ्चिन्नास्तित्वादिनिषेध मात्रप्रकारक कथश्चिदवक्तव्यप्रकारकघटादिधर्मिविशेष्यकबोध जनकवाक्यत्वं तथाविधविलक्षणधर्ममात्रप्रकारक घटादिविशेष्यकबोधजनकवाक्यत्वं वा लक्षणं, अन्यत्सर्वं पश्चमभङ्गबत्केवलं विधिकल्पनास्थाने निषेधकल्पनापृथक्भावे प्रविशतीति ॥ इति षष्ठभङ्गन्निरूपणम् ॥ ॥ अथ सप्तमभङ्गनिरूपणम् ॥ सप्तमभङ्गन्निरूपयति । पृ. २८ पं. २ स्यादस्त्येवेति- तृतीयचतुर्थभङ्गसंयोजनया प्रथमद्वितीय चतुर्थभङ्गसंयोजनया वाऽयं भङ्गः, सप्तमो धर्मोऽतिरिक्तोऽत्रापि विषयतादृशधर्म

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332