________________
मनतर्क भाषा
प्रथमभङ्गप्रतिपाद्यास्तित्वेन सहैकधर्मिणि बोधनेच्छया स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः पृथक्कल्पनया स्वद्रव्यादिनाऽस्तित्वलक्षणविधिपरद्रव्यादिना नास्तित्वलक्षणनिषेधयोः प्राधान्यतो युगपत्कल्पनया चायं भङ्गः प्रवर्त्तते । अस्य कथञ्चिदस्तित्वादिप्रकारककथञ्चिदवक्तव्यत्वप्रकारकघटाद्ये कथमि विशेष्यकवोध जनकवाक्यत्वंलक्षणम्, सप्तमभङ्गेऽतिव्याप्तिवारणाय कथञ्चिदस्तित्वादिप्रकारकेत्यस्य पृथक् कथञ्चिदस्तित्वादिविधिमात्र प्रकार केत्येवंपरता विवक्षणीया, सप्तमभङ्गजन्यबोधे च पृथक्कथञ्चिन्नास्तित्वादिनिषेधप्रकारको भवतीति तद्वारणम्, एतावतैव सप्तभङ्गात्मक महावाक्येऽपि नातिव्याप्तिः तज्जन्यमहावाक्यार्थबोधे पृथक्कथञ्चिन्नास्तित्वादिनिषेधस्यापि प्रकारत्वात् सूक्ष्मविचारणायां च कथञ्चिदस्तित्वसम्वलित कथञ्चिदवक्तव्यत्वोक्त्या पञ्चमं धर्मान्तरमेव बोध्यते तच्चेत्थमेवोल्लखितुं शक्यते नान्यथेति तत्पतिपादकं स्यादस्त्वेवस्यादवक्तव्यमेवेति भङ्ग इति, तथाच तथाविधविलक्षचर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणं पर्यवस्यतीति ॥ इति पश्चमभङ्गनिरूपणम् ॥
॥ अथ षष्ठभङ्गनिरूपणम् ॥
२०४
षष्ठं भङ्गन्निरूपयति ॥
पृ. २८ पं. १ स्यानास्त्येवेति चतुर्थद्वितीयधर्मसम्मेलनोपस्थापितपष्ठधर्मप्रतिपादकतयाऽयं भङ्गः प्रवर्त्तते, अस्य पृथक्कथञ्चिन्नास्तित्वादिनिषेध मात्रप्रकारक कथश्चिदवक्तव्यप्रकारकघटादिधर्मिविशेष्यकबोध जनकवाक्यत्वं तथाविधविलक्षणधर्ममात्रप्रकारक घटादिविशेष्यकबोधजनकवाक्यत्वं वा लक्षणं, अन्यत्सर्वं पश्चमभङ्गबत्केवलं विधिकल्पनास्थाने निषेधकल्पनापृथक्भावे प्रविशतीति ॥
इति षष्ठभङ्गन्निरूपणम् ॥
॥ अथ सप्तमभङ्गनिरूपणम् ॥
सप्तमभङ्गन्निरूपयति ।
पृ. २८ पं. २ स्यादस्त्येवेति- तृतीयचतुर्थभङ्गसंयोजनया प्रथमद्वितीय चतुर्थभङ्गसंयोजनया वाऽयं भङ्गः, सप्तमो धर्मोऽतिरिक्तोऽत्रापि विषयतादृशधर्म